१२४ शब्दापशब्दविधेके
१६४. अहो मलीमसं ते चरितम् । अल्पजले क्वचिदेत्य निलीहि सरसि ।
१६५. श्याम सृजस्व तनुं न विलम्बय ।
१६६. अहं च तस्मिञ्जने विश्वस्तस्तूष्णीमस्थिषि ।
१६७. त्राहि त्राहि न आपद्गतान् । कमन्यं शरणं याम ?
१६८. नृपात्मजौ चिक्लिशतु: ससीतौ, ममार राजा विधवा भवत्यः ।
(भट्टौ ३।३१)।
१६९. ग्रहीतुं न ते शेकिरे दक्षिणाशाम् ।
१७०. परं ह्युद्येमिरे सम्यग्ज्ञानाय मुनयः ।
१७१. तस्याकृतिं कामपि वीक्ष्य दिव्यामन्तर्भवश्छद्मविहङ्गमग्निम् ।
विचिन्तयन्संविविदे स देवः ---- (कुमारे ९।५)॥
१७२. तमार्यगृह्यं निगृहीतधेनुं, मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन् विस्मितमात्मवृत्तौ ----(रघु० २।३३) ।
१७३. अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते (मनु० ३।७६) ।
१६४. लीङ्श्लेषणे इति दिवादिषु पठ्यते । तेन ङित्त्वाल्लोटि निलीय-
स्वेत्येव साधु ।
१६५. सृज विसर्गे इति तौदादिकः परस्मैपदी । तेन सृजेत्येव साधु ।
१६६. अस्थामित्येव परस्मैपदे लुङि रूपं न्याय्यम् ।
१६७. त्रैङ् पालने इति धातुभौवादिकः । ङित्त्वादात्मनेपदे त्रायस्वेत्येव
साधु ।
१६८. क्लिश उपतापे दिवादिरनुदात्तेत् । तेन लिटि चिक्लिशाते इत्येवं
भवितव्यम् ।
१६९. शक विभाषितो मर्षण इति दिवादेरुभयपदिनी लिटि शेकिर
इति रूपं बोध्यम् ।
१७०. समुदाङ्भ्य इति कर्त्रभिप्राये क्रियाफले लिटि उद्येमिर इति
साधु । उद्यमं कृतवन्त इत्यर्थः ।
१७१. संविविदे संवित्तिमान् बभूवेति कर्मणोऽविवक्षायामात्मनेपदं
साधु ।
१७२. विस्माययन्निति शतरि परस्मैपदे साधु । न ह्यत्र प्रयोजकाद्
विस्मयः, तेन नाऽऽत्वं न वाऽऽत्मनेपदम् ।
१७३. उपपूर्वकादकर्मकात् तिष्ठतेरात्मनेपदं विहितम् । इह च आदित्य
इति कर्म श्रूयत इत्यात्मनेपदस्याप्रसङ्गः ।