उपग्रहाधिकारः १२३
१५७. उपायंस्त१ महास्त्राणि निरगाच्च द्रुतं पुरः (भट्टौ १५।२१)।
१५८. आजध्ने विषमविलोचनस्य वक्ष: (भारवौ)।
१५६. कदाचित्कुप्यते माता नोदरस्था हरीतकी।
१६०. पातालहंसाः पटुभिर्निनादैः प्रबोधयन्ते नृप ! नागकन्या: ।
१६१. न वयं परस्वेष्वातिष्ठामहे२ ।
१६२. समस्थमनुरज्यन्ति विषमस्थं त्यजन्ति च (रा० ३।९।१६) ।
१६३. अद्य चिरं तं परिचिनोमीति सोऽसंशयं विरहेऽस्मिन् मामनुसु-
स्मूर्षेत्१ ।
१५७. उपायद्यमः स्वकरण इति स्वकरणे विवाहेर्थे उपपूर्वाद्यमेरात्मने-
पदं विहितम् । भट्टिस्त्वङ्गीकारमात्रमर्थमङ्गीकरोति । एवमाच-
रन्स वृत्त्यादिविरोधादुपेक्ष्यः । विवाहादन्यत्र तूपायंसीदित्येव
साधु ।
१५८. आहन्तिरिह सकर्मकः, वक्ष इति कर्मणः श्रुतेः, तेन आडो
यमहन इत्यनेनात्मनेपदस्याप्रसङ्गः । अत एव प्रमाद एवायमिति
भागवृत्तिः । दीक्षितस्त्वनेकमत्र समाधिमाह-प्राप्येत्यध्याहारो
वा । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वा । समीपमेत्येति वा ।
अयमर्थः-विषमविलोचनस्य समीपमेत्य वक्ष आजघ्ने स्वकीय-
मेव वक्षो मल्ल इव सन्तोषातिशयादास्फालयाञ्चक्र इत्यर्था-
स्वाङ्गकर्मकत्वमस्त्येवेत्यव्याहतमात्मनेपदम् । अस्थाने क्लेशस्य
पदमुपनीयत आत्मा दीक्षितेनेति वयम् । वस्तुतस्तु आजध्ने
वक्षसि द्रोणो नाराचेन धनञ्जयम् (द्रोण० ९१।२३) इति भारत-
स्थप्रयोगेण वासितान्तःकरण: कविरात्मनेपदं प्रयुयुजे पाणिनीय-
शासनं चोच्चेरे।
१५९. कुप्यतीत्येव साधु । साधुत्वे स्पष्टो हेतुः ।
१६०. बुधयुधेत्यादिना शास्त्रेण प्रबोधयन्तीत्येव साधु ।
१६१. आङ्पूर्वस्तिष्ठतिरिहादरे स्पृहायां वर्तत इति प्रतिज्ञानाभावा-
न्नात्मनेपदप्राप्तिः । तत्रार्थेऽयं शक्तो न वेति सन्दिह्महे ।
१६२. अनुरज्यन्तीति साधु । पक्षेऽनुरज्यन्त इति । साधुत्व उक्तो हेतु:
पूर्वत्र ।
६३. ज्ञाश्रुस्मृदृशां सन इत्यनुसुस्मूर्षेतेत्येव युक्तम् ।१. स्वीचकार । २. आस्थावन्तो भवामः । आस्थाऽऽदरः, स्पृहेति यावत् ।
१. स्मर्तुमिच्छेत् ।