१२२ शब्दापशन्दविवेके
१४९. श्रीजवाहरलाले महामन्त्रिण भरतभुवं शासति सति भूयां-
समभ्युदयमाशंसति लोकः ।
१५०. इह देशे भूसुरा अभीतवन्मृत्युना संग्रामयाञ्चक्रु: ।
१५१. ये प्रकृत्याऽजिह्या वरीवर्तन्ते तैर्जितम् ।
१५२. सुहृदो भोजनेन निमन्त्रयति तदर्थं च महतः संभारान् कुरुते ।
१५३. सख्यः शपापि यदि किंचिदपि स्मरामि (अमरुशतके)।
१५४. इदं कविभ्यः पूर्वेभ्यो नमोवाकं प्रशास्महे (उत्तर० ११६) ।
१५५. इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्य (भट्टौ) ।
१५६. वारिपूर्णां महीं कृत्वा पश्चात्संक्रमते गुरुः ।
प्रयुक्तो दृश्यते । भगवता भाष्यकारेणापि वाचिकषडिकौ न संव-
देते इत्यत्रात्मनेपदं प्रयुक्तम् । उदाहरणान्तराण्यस्मत्कृतौ व्या-
करणचन्द्रोदये तृतीये खण्डे उपग्रहे स्खलितानीत्यत्र संगृहीतानीति
तत्रैव दृश्यानि । वाग्व्यवहारादर्शानुबन्धेऽप्यस्य विमर्शः कृतः ।
१४९. आङः शसि इच्छायामिति भूवादिष्वनुतात्तेत्पठितः, तेनाशंसत
इत्येव साधु ।
१५०. संग्राम युद्ध इति चुरादिष्वदन्तोनुदात्तेत् । तेन संग्रामयांचक्रे
इत्याम्प्रत्ययवत्कृञोऽनुप्रयोगस्येत्यनेनात्मनेपदे साधु ।
१५१. यङ्लुकि शेषात्कर्तरि परस्मैपदमिति परस्मैपदे वरीवृतति इत्येव
साधु।
१५२. निमन्त्रयत इत्येव साधु । उक्तो हेतुः पूर्वत्र (१२२ वा०)।
१५३ शप आक्रोशे स्वरितेत्पठितः । शप उपालम्भ इति शपथेर्थेऽकर्तृ
गेऽपि फल आत्मनेपदं विहितम् । तेन शप इति युक्तम् । स्वाशयं
प्रकाशयामीत्यर्थो विवक्षितो न तु शपथ इति न तङिति केचित्स-
माधिमाहुः ।
१५४. आङः शासु इच्छायामित्यत्राङ्ग्रहणं प्रायिकं द्रष्टव्यमिति
दीक्षितः । तेन प्रशास्मह इति साधु । वस्तुतः प्रायिकत्वे दृढतरं
मानं नास्तीति चिन्त्यमेतत् ।
१५५. अनुपसर्गाद्वेति जानातेः केवलात्पक्षे तङ् विहितः, सोपसर्गात्तु
शेषात्कर्तरीति परस्मैपदमेव युक्तम् । तेनानुजज्ञावित्येव पाठ्यम् ।
नृपेणेति विपरिणामेन कर्मण्यात्मनेपदमिति जयमङ्गला।
१५६. संक्रामतीत्येव साधु । आत्मनेपदविधेरभावात् ।