उपग्रहाधिकारः १२१
१४१. ते विक्रान्तवद्१ अयुत्सन्, परं रिपूञ्जेतुं नापपारन्२ ।
१४२. अङ्गाङ्गिभावो गौणमुख्यतामेव जनयति न तु हेयोपादेयभावं
प्रयुनक्ति।
१४३. सत्त्वोद्रेकसिद्धयेऽहर्निशं तपश्चरन्तं महर्षिनिवहं न न निशाम-
यामस्तथापि कृत्ये न जागृमः ।
१४४. यश्च मूढतमो लोके यश्च बुद्धेः परं गतः । उभौ तौ सुखमेधेते
क्लिश्यत्यन्तरितो३ जनः ।।
१४५. कुतुकिनो हि बाला इति तेषां हृत्स्वेवंविधाः प्रश्नाः स्वत उत्ति-
ष्ठन्ते ।
१४६. ग्रहणधारणशक्तिर्हि च्छात्रेषु ह्रसमाना लक्ष्यते, तत्र हेतुर्मृग्यः ।
१४७. सुजनेषु तिष्ठत्सु दुर्जनास्तरन्तीति खिद्यति नश्चेतः ।
१४८. इदं च प्रतिपन्नप्रायं पण्डितराजस्य शैली तत्कालै४ र्भाषान्तर-
कविवर्यैर्भूयः संवदते।
१४१. युध् सम्प्रहारेऽनुदात्तेत् । तेन लुङि प्रथमपुरुषबहुवचनेऽयुत्सते-
त्येव साधु।
१४२. प्रोपाभ्यां युजेरयज्ञपात्रेष्विति प्रयुङ्क्त इत्येव साधु । प्रयुङ्क्ते
प्रयोजयति कारयति ।
१४३. शम लक्ष आलोचने इति चुरादिषु शमिरनुदात्तेत् पठितः । तेन
निशामयामह इत्येव साधु । नान्ये मितोऽहेताविति मित्त्वाभावः ।
१४४. क्लिश उपतापे दिवादिरनुदात्तेत् । तेन क्लिश्यत इत्येव पाठ्यं
पाणिनीयतालाभाय ।
१४५. उदो नूर्ध्वकर्मणीत्यत्र उद ईहायामिति वाक्यकारः पठति । तेने-
हायाश्चेष्टाया अभावादत्रोत्तिष्ठन्तीत्येव साधु ।
१४६. तुस ह्रस ह्लश रस शब्दे इत्यत्र भ्वादिषु ह्रसतिः परस्मैपदी
पठितः । तेन ह्रसन्तीत्येव साधु । घातूनामनेकार्थत्वादल्पीभावे-
ऽस्य वृत्तिः
१४७. खिद दैन्य इति दिवादिष्वनुदात्तेत् पठितस्तेन खिद्यत इत्येव
साधु । वामनस्त्वस्य दिवादिषु पाठमपश्यन् खिद्यत इति कर्म-
कर्तरि प्रयोगमाह।
१४८. संवदतीत्येव पाणिनीयं भाति । आत्मनेपदविधेरभावात् । परं
सम्पूर्वो वदतिर्वैदिके लौकिके च साहित्ये बहुलम् आत्मनेपदे
१ शूरवत् । २. पार तीर कर्मसमाप्तौ चुरादिः । लुङ् ।
३. मध्यगतः। ४. स कालो येषां ते तत्कालाः, तै: ।