१२० शब्दापशब्दविवेके
१३३. अनुक्तमप्यूहति पण्डितो जनः (हितोप०)।
१३४. नियोगिनो राजानमुपकुर्वन्ति राजप्रसादमिच्छन्तः । हृदयेन त्व-
नुवृत्तिं नेच्छन्ति ।
१३५. स नित्यं मातरं वरिवस्यते१ आशीभिश्च तत्प्रयुक्ताभिरेधते ।
१३६. युद्धश्रद्धां२ च तेऽद्याहं विनेष्यामि महाहवे (महाभारते)।
१३७. स्वगोत्राद् भ्रश्यते नारी उद्वाहात्सप्तमे पदे ।
१३८. यत्स्वयं नमते दारु न तत्सन्नामयन्त्यपि।
१३९. स महीमखिलां भुञ्जन् राजर्षिप्रवर: पुरा । वर्णानां संकरं चक्रे
कामोपहतचेतनः३ (मनु० ६।६७) ।।
१४०. अत्रार्थे पठकानां' पाठकानां चावधानमाकर्षामहे ।
१३३. ऊह वितर्के इत्यात्मनेपदी भ्वादिषु पठ्यते । तेनात्मनेपदमेव
साधु ।
१३४. उपकरोतिरिह सेवनेऽनुवृत्तौ वतत इति गन्धनादिसूत्रेणात्मनेपदे
उपकुर्वत इत्येव साधु ।
१३५. नमो वरिवश्चित्रङः क्यच् इति क्यचि परस्मैपदे वरिवस्यतीत्येव
साधु ।
१३६. अत्र नयतेर्यः कर्ता न तत्स्था युद्धश्रद्धा, यद्यप्यशरीरा सा, किन्तर्हि
कर्मस्थेति कर्तृस्थे चाशरीरे कर्मणीत्यात्मनेपदनियमस्याप्रसङ्गः ।
ञिदयं धातुः । ञित्त्वादुभयमस्मादुत्पद्यते पदम् । तेनाकर्तृगामि-
क्रियाफलविवक्षायां विनेष्यामीति परस्मैपदं
साधु
१३७. भृशु भ्रंशु अधःपतने इति भ्रंशुधातु दिवादिषु परस्मैपदी पठितः
तेन भ्रश्यतीत्येव साधु ।
१३८. नमत इति कर्मकर्तरि साधु । न दुहस्नुनमा यक्चिरणाविति यग-
भावः । ज्वल -ह्वल-ह्मल-नमामनुपसर्गाद्वेति सोपसर्गस्य नमेर्नि-
त्यायां मित्संज्ञायां सन्नमयन्तीत्येव साधु ।
१३६. भुञ्जन्नित्यवनेऽर्थे साधु । तद्व्यतिरिक्ते भोगे त्वसाधु । स
राजा पृथिवीं बुभुजे न तु पालयांचक्र इति वर्णसाङ्कर्यकरणा-
त्प्रतीयते । तेन भुञ्जान इत्येव वक्तव्यम् ।
१४०. कृष विलेखने भ्वादिः परस्मैपदी । तेनाकर्षाम इत्येव साधु ।१ परिचरति । २. युद्धतर्षम्
३. कामेनोपहता दूषिता चेतना बुद्धिरस्येति ।
४. पठतीति पठः । पचाद्यच् । स एव पठकः ।