उपग्रहाधिकारः ११९
१२३. नूनं वैयाकरणपाशोऽसि, यदेवं पदानि मिथ्या कारयसे ।
१२४. नवनवा अर्था: समुदयन्ति मनसि प्रहर्षं च कमपि जनयन्ति ।
१२५. यदा वृत्तिकर्शितो विप्रः कृषति भूमिं हलेन तदा व्यतिकरोति ।
१२६. आगमय१ तावन्माणवक ! एत आयान्ति गुरुचरणाः ।
१२७. किमिति मुधा भर्त्स्यसि शिशून् । मुग्धा इमे काममुद्धतं वर्त-
न्ताम् ।
१२८. समर्थोऽपि त्वं कस्मादृणं न विनयसि२ पैतृकम् ?
१२९. बह्वस्य श्रेष्ठिन आवेशनेषु कार्यमिति बहूनुपनयते कर्मकरान् ।
१३०. एवं शास्त्रेषु वादिनो वदन्तेऽन्योन्यं च विजिगीषन्ते ।
१३१. तयोर्भ्रात्रोराकृती प्रायेण संवदेते इत्येकं दृष्ट्वाऽपरोऽयमिति
भ्रमति जनः ।
१३२. सबला दुर्बलान् दुन्वीरन्निति न संभाव्यतेऽयमनाचारो मनु-
व्येषु ।
-
१२३. मिथ्योपपदात्कृञोऽभ्यासे इत्यात्मनेपदे साधु रूपम् । असकृद-
न्यथोच्चारयतीत्यर्थः ।
१२४. समुदयन्तीत्यस्य साधुत्वे पूर्वत्र (गणाधि० २४वा०) हेतुरुक्तः ।
१२५. कर्तरि कर्मव्यतिहारे इति व्यतिकुरुत इत्येव साधु । यदाऽन्यस्य
योग्यं कर्माऽन्यः करोति तदापि कर्मव्यतिहारो भवति ।
१२६. आगमे: क्षमायामित्यात्मनेपदे आगमयस्वेत्येव साधु ।
१२७. तर्ज भर्न्स भर्त्सने चुरादी अनुदात्तेतौ । तेन भर्त्सयत इत्येव
पाठ्यम् ।
१२८. अत्र विनयतिर्विगणने वर्तत इति सम्माननोत्सञ्जनादिसूत्रेणा-
त्मनेपदेन भाव्यम् ।
१२९. उपनयतेर्बिभर्तीत्यर्थात् सम्माननादि सूत्रेणात्मनेपदं साधु ।
१३०. वदन्ते भासमाना भाषन्त इत्यर्थः । तेन भासनोपसंभाषेत्यादिना-
ऽऽत्मनेपदं साधु । पूर्ववत्सन इति विजिगीषन्त इत्यपि साधु ।
१३१. संवदत इत्येव साधु । आत्मनेपदविधिविरहात् ।
१३२. टुदु उपतापे स्वादिः परस्मैपदी । तेन सार्वधातुके तिङि 'दुनुयुः'
इति स्यात् ।१. कंचित्कालं सहस्व । २. विगणयसि।
३. शिल्पिशालासु । आवेशनं शिल्पिशालेति वैजयन्ती । ४. बिभर्ति ।