११८ शब्दापशब्दविवेके
११४. न काङक्षे विजयं न च राज्यं सुखानि च ।
११५. सर्वतः सारमादद्यात् (भा० पु०) ।
११६. नान्यथा शाण्डिली माता विक्रीणाति तिलैस्तिलान् (पञ्चत०)।
११७. अभिवादयामि देवदत्तोऽहं भोः ।
११८. स्वं कृत्यं सुष्ठु संविदन् प्राज्ञों मातापितृभ्यां संवित्ते१ ।
११९. इदं नाटकं प्रयोगेणाधिकुर्वन्तु कुशीलवा नान्दी च कुर्वन्तु रङ्ग-
विघ्नोपशान्तये ।
१२०. पश्य नभो मध्यमाक्रामति सूर्यः ।
१२१. चिरतरं मया त्वयि२ स्थितम्, समुत्सुकाश्च बान्धवा मद्विप्रयो-
गेण, तेन त्वामापृच्छामि ।
१२२. अयि कोकि ! आमन्त्रय सहचरम् । उपस्थिता रजनी ।
११४ काङ् क्षतिर्वादिषु परस्मैपदी पठितः । तेन काङ्क्षामीत्येवं
साधूकरणीयम्।
११५ आङो दोऽनास्यविहरण इत्याददीतेत्येव सार्वधातुके लिङि साधु ।
११६ परिव्यवेभ्यः क्रिय इति विक्रीणीते इत्येव साधु ।
११७ अत्र वद संदेशवचन इति चौरादिको घातुः । अभिपूर्वो नमस्कारे
वर्तते । अयमनुदात्तेत् इति केचित् । तन्मते अभिवादये इत्येव
साधु । स्वरितेत्त्वेप्याशीर्लक्षणस्य क्रियाफलस्य कर्तृगामित्वा-
ण्णिचश्चेत्यात्मनेपदमेव न्याय्यम् । तथा च प्रायेण व्यवहारः ।
११८. संविदन्निति सकर्मकत्वात् संवित्त इत्यस्य चाकर्मकत्वाद्यथास्थितं
पदे न्याय्ये । सम्पूर्वादकर्मकादेव विदेरात्मनेपदविधिः ।
११९. अधिकुर्वन्त्वित्यस्य विषयीकुर्वन्त्वित्यर्थः । प्रयोगेणेति प्रकृत्यादि-
त्वात्तृतीया । तेन 'अधेः प्रसहने' इत्यस्याप्रसङ्गः । प्रसहनमभि-
भवः ।
१२०. आङ्पूर्वः क्रमिरिहावष्टम्भे वर्तते नोर्ध्वगमने । तेन यथास्थितं
साधु ।
१२१. आङि नुप्रच्छयोरित्यात्मनेपदे आपृच्छे इत्येव साधु । गमना-
नुज्ञां याच इत्यर्थः।
१२२. मत्रि गुप्तपरिभाषणे चुरादिरनुदात्तेत्, तेनामन्त्रयस्वेति साधु ।१. संजानीते, अनुगुणं वर्तते । २. त्वदन्तिके । सामीपिकेऽधिकरणे सप्तमी ।