उपग्रहाधिकार: ११७
१०६. युक्तं नाम सभापतिं सभ्या वयं संभूयेदं१ प्रार्थयेमेति ।
१०७. प्रथमं यत्स्पृशेद् बालो रिङ्गमाणः स्वयं तदा। जीविका तस्य
बालस्य तेनैव तु भविष्यति (व० बृ० सं०) ।
१०८. यदि ते प्रतिवेशी भ्रश्यते सत्पथात्, भ्रश्यताम् । किं तवानेनेति
केचिन्मिथ्योदासीना अनुशासति लोकम् ।
१०९. सिध्यन्तां नः कर्माणि लौकिकानि पारलौकिकानि चेति नित्य-
माशंसामहे।
११०. विश्वामित्रः किल वसिष्ठेन पराजितो निविवेद ।
१११. तपस्तप्यति तापसस्त्वगस्थिभूतः ।
११२. विसृजन् कफपित्ते कृपणं च परिदेवयन्२ यो राजन्यः शय्यायां
म्रियते सोऽधमः ।
११३. दास्या सम्प्रयच्छति मुक्ताहारं राजापसदः३ ।
१०६ अर्थ यात्रायामिति चुरादिरदन्तोनुदात्तेत् । तेन प्रार्थयेमहीति
वक्तव्यम् । प्रार्थनं प्रार्थ इति प्रार्थात्प्रातिपदिकात्तत्करोति तदा-
चष्ट इति णिचि णिचश्चेत्यकर्तृभिप्राये परस्मैपदमिति
समाधिस्तु प्रत्यभिनिविष्टचेतसां विकृतबुद्धीनामेव शोभते ।
१०७ इगि रिगि लिगि गत्यर्था भौवादिकाः परस्मैपदिनः । तेन रिङ्ग-
न्नित्येव साधु।
१०८. भृशु भ्रंशु अधःपतने दिवादिषु परस्मैपदिनौ । तेन भ्रश्यति
भ्रश्यतु इति च पठितव्यम् ।
१०६ षिधु संराद्धाविति दिवादि: परस्मैपदी । तेन सिध्यन्त्विति साधु
स्यात् । प्राशंसामहे इत्याङः शसि इच्छायामित्यस्य लटि रूमम् ।
स चानुदात्तेत् ।
११०. निर् पूर्वाद् विद्यतेर्लिटि निर्विविदे इत्येव साधु । विद्यतेरेव
तत्रार्थे प्रयोग इति प्रयोगचणाः ।
१११. तपस्तपःकर्मकस्यैवेति कर्तु: कर्मवद्भावः । तेनात्मनेपदमेव
युक्तम् । तपोऽर्जयतीत्यर्थः ।
११२. दिव परिकूजने चुरादिरनुदात्तेत् । तेन परिदेवयमान इत्येव
साधु ।
११३. दाणश्च सा चेच्चतुर्थ्यर्थ इत्यात्मनेपदे सम्प्रयच्छत इत्येव
साधु ।
१. संमिल्य। २. विलपन् । ३. क्षुल्लको राजा राजापसदः ।