११६ शब्दापशब्दविवेके
९७. शरीरेन्द्रियसङ्घाताद् व्यतिरिक्त आत्माऽस्ति न वेति सन्दिहते
केचिदार्षमनाद्रियमारणाः ।
९८. नास्तिकं बलवज्जुगुप्सन्त्यार्य्या:, वेदनिन्दको हि स भवति ।
९९. यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य
युञ्जतो योगमात्मनः (गीता ६।१९) ।।
१००. इष्टं चेन्नाप्नुते जनः प्रयतमानोऽपि न स आत्मानमवसादयेत् ।
१०१. नायं मे प्रैष्यः सत्ये स्थित इति गृहगमनमस्य नानुजिज्ञासे ।
१०२. कष्टं दानमिति याचितं नाऽऽशुश्रूषते धनिको विप्राय ।
१०३. यथा पुष्करपलाश१ आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न
श्लिष्यते।
१०४. आकाशे वा पाताले वा गतिर्नो सज्जते क्वचिदिति हरयः प्रति-
जजिरे ।
१०५. अयं ते काम: समृव्यतामिति नित्यमाशास्महे ।
-
९७ दिहिरुपचये स्वरितेत् । उपसर्गः पदे नान्तरं करोति । तेन
यथास्थितं साधु !
९८. गुपेनिन्दायां सन् । अयं चानुदात्तेत् । अवयवे कृतं लिङ्ग समु-
दायस्य विशेषकं भवतीति सन्नन्तात्तङ । तेन जुगुप्सन्त इत्येव
साधु ।
६६. इगि रिगि लिगि गत्यर्था भौवादिकाः परस्मैपदिनः । तेन इङ्गती-
त्येव साधु । इत्थमेव च प्रयोज्यं पाणिनीयैरस्माभिः ।
१०० आप्लृ व्याप्ताविति परस्मैपदी । तेनाप्नोतीत्येव साधु ।
१०१. नानोर्ज (१।३।५८) इत्यात्मनेपदनिषेधाद् अनुजिज्ञासतीत्येव
साधु ।
१०२. प्रत्याङ्भ्यां श्रुव इत्यात्मनेपदनिषेधाद् आशुश्रूषतीत्येव साधु ।
१०३ श्लिषिरकर्मकः । अयं च दिवादिषु परस्मैपदिषु पठ्यते । तेन
श्लिष्यन्ति श्लिष्यतीति च साधु ।
१०४ 'हेतुमति च' इति सूत्रे यदभिप्रायेषु सज्जत इति भाष्यकार-
प्रयोगात् षस्ज सङ्ग इति धातुरात्मनेपद्यपि, तेनादोषः ।
१०५. ऋधु वृद्धाविति दिवादिः परस्मैपदी । तेन समृध्यतु इत्येव साधु ।१. कमलपत्त्रे ।