पृष्ठम्:शब्दापशब्दविवेकः.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकार: ११५


८८. अनुवदते कठ: कालापम् । ८९. पौर्विकीं सस्मरञ्जाति ब्रह्मैवाभ्यस्यते पुनः (मनु० ४।१४९) । ९०. पितरावपि तावन्मां न संविदाते किमुतेतरे । ९१. विक्राम१त्यनिलात्मजे दशमुखः कां कामवस्थां गतः । ९२. प्रस्थाने विचिकित्ससे । अस्त्यात्मेत्यभ्युपगच्छन्ति परीक्षका लौकिकाश्चाऽपि । कि च । प्रहमस्मीति कोऽसंमुढोपलपेत् ? ९३. सविता पङ्कजान्येव बोधयते शशाङ्कश्च कमुदान्येवेति निसर्गः । ९४. सप्ताहात् परेण सूर्य ग्रसिष्यति ग्रहः । ९५. संगच्छ शूलमादाय पाशहस्त इवान्तकः । ९६. अनुवदति वीणा गायनस्य । ८८. अनोरकर्मकादित्यकर्मकादनुपूर्वाद्वदतेरात्मनेपदं विहितम् । अत्र तु कर्म श्रूयत इत्यनुवदतीति वक्तव्यम् । कालापस्येत्येवं वा विप- रिणमयितव्यम् । ८९. उपसर्गादस्यत्यूह्योर्वेति पाक्षिक आत्मनेपदेऽभ्यस्यते इति साधु । गणकार्यमनित्यमिति शप: श्यन्नेति अभ्यसत इत्यपि समाहितं भवति । ९०. अर्तिश्रुविदिभ्यश्चेत्यत्राकर्मकादित्यनुवृत्तः सकर्मकाद्विदेरात्मनेपदं दुर्लभम् । तेन संवित्त इति वक्तव्यम् । ९१. उपपराभ्यामिति नियमान्नान्यपूर्वात्क्रमेव॒तिसर्गतायनेष्वात्मने- पदम् । विपूर्वः क्रमिरत्र सर्ग उत्साहे वर्तते तेन शतरि ङौ विक्रामतीति साधु । ९२. विचिकित्सतीत्येव साधु । उक्तो हेतुः पूर्वम् । ९३. बुधयुधेति सूत्रेण ण्यन्ताबुधेः परस्मैपदनियमः । तेन बोधयती- त्येव शक्यं वक्तुम् । ९४. ग्रसु ग्लसु अदने भूवादी अनुदात्तेतौ । तेन ग्रसिष्यत इत्येव साधु । ९५. गमेरकमकत्वविवक्षायां समो गम्यृच्छिभ्यामित्यात्मनेपदे संगच्छ- स्वेति स्यात् । ९६. व्यक्तवाचामित्यनुवृत्तेरकर्मकादनुवदतरात्मनेपदं न ।१. पराक्रममाणे, शूरवद् वर्तमाने ।