पृष्ठम्:शब्दापशब्दविवेकः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११४ शब्दापशादविवेके


७८. काष्ठं काष्ठेन योधयते, अग्निं जनयिष्य इति च मन्यते । ७९. इदं ते दुर्वृत्तं पितुः कोपं जनयिष्यते मातुश्च शोकम् । ८०. धन्यः स माणवको यो वेदे व्याकरणे च समं समुद्यच्छते । ८१. प्रदीपप्रभा हि बाह्यं तमो नाशयते नान्तरम् । ८२. अहं तेन पथि समागच्छं चिरं च समलपम् । ८३. यो हितानि सुहृद्वाक्यानि न संशृणुते स पङ्के गौरिव कालेऽवसी- दति । ८४. मुहूर्त्तमिह तिष्ठ, ततः प्रतिष्ठ नाहं त्वामुपरोत्स्यामि । ८५. सुहृदं देवदत्तमभिक्रुद्धो गुरुरिति तमनुनाथे । मर्षयार्हन् ! इमं प्रथमापराद्धम् । ८६. आयुषो रागिचित्तस्य वित्तस्य पिशुनस्य च । अथ स्नेहस्य देहस्य नास्ति कालो विकुर्वतः२ ॥ ८७. उषः प्रशंसते गर्गः शकुनं च बृहस्पतिः । अङ्गिरा मन उत्साह ब्रह्मवाक्यं जनार्दनः ॥ ७८. ण्यन्तात्करतृभिप्राये क्रियाफले आत्मनेपदे प्राप्ते बुधयुधनशजनेङ् इत्यादिना परस्मैपदनियमे योधयति जनयिष्यामीति च साधु । ७९. जनयिष्यतीत्येव साधु । उक्तो हेतुः । ८०. समुदाङ्भ्यो यमोऽग्रन्थे इति ग्रन्थपर्युदासात्समुद्यच्छतीत्येव साधु । ८१. नाशयतीत्येव साधु । उक्तो हेतुः । ८२. समागच्छम् इत्यत्र गमिराङ्पूर्वो न तु सम्पूर्व इति समो गम्युच्छिभ्यामित्यनेनात्मनेपदविधेरप्रसङ्गः। ८३. अर्तिश्रुविदिभ्यश्चेत्यकर्मकाच्छ्रुणोतेरात्मनेपदविधिः । अत्र शृणोति: सकर्मक इति संशृणोतीत्येव साधु । ८४. समवप्रविभ्यः स्थ इत्यात्मनेपदे प्रतिष्ठस्वेति साधु । ८५ आशिषि नाथ इत्याशिष्येव नाथतेरात्मनेपदमिति याञ्चायां पर- स्मैपदेऽनुनाथामीत्येव साधु । ८६. विकुर्वत इत्यस्य विकारं गच्छत इत्यर्थः । तेन करोतिरत्रा- कर्मकः । अकर्मकाच्चेत्यनेनात्मनेपदे विकुर्वाणस्येति वक्तव्यम् । ८७. शंसु स्तुताविति भ्वादिः परस्मैपदी, तेन प्रशंसतीत्येव साधु ।१. उद्योगं कुरुते । २. विकारं गच्छतः ।