पृष्ठम्:शब्दापशब्दविवेकः.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकार:


६९. नेदमनीदृशं जगदिति जैमिनीया: संगिरन्ति । ७०. ये कापथमभिनिविशन्ते ते क्लिश्यन्ते । ७१. संक्ष्णुहि१ शस्त्रीम् । इयं कुण्ठिताश्रिर्न२ किमपि कृन्तति । ७२. अम्बा दण्डेन भीषयते चापलमाचरन्तं किशोरम्, न चासौ बिभेति वियात:३ ७३. अनुजानीष्व मां गमनाय । उत्सुकोऽहं मातृदर्शनेन । ७४. प्रवहन्ते सरितः सागराय, न च सर्वाः समुद्रगा भवन्ति । ७५. यावद्वेदं विप्रान् भोजयते यावदमन्त्रं च बालानाशयति । ७६. शयालुरेष शिशुः४ । एनं शाययस्व । ७७. गुरो! प्रथममिति ममेदमागः५ परिमृष्यस्व । ६९. समः प्रतिज्ञान इति संगिरन्त इत्येव साधु । अस्माकं तु गृणातेः प्रयोगः सम्मतः । ७०. नेविश इति निविशेरात्मनेपदं साधु । क्लिश उपतापे दिवादि- रनुदात्तेत् । अयमकर्मकः, क्र्यादिस्तु सकर्मकः । ७१. समः क्ष्णुव इति संक्ष्णुष्वेत्यात्मनेपदे साधु । ७२. भियो हेतुभये षुक् भीस्म्योर्हेतुभये इति हेतुभये षुगात्मनेपदे विहिते । प्रकृते दण्डात्करणाद्भयं न तु हेतोः प्रयोजकादिति भाययतीत्येव वक्तव्यम् । ७३. अनुपसर्गाद्वेति सूत्रेण केवलाज्जानातेः कर्तृभिप्रायक्रियाफल आत्मनेपदं विहितम् । तेनानुपूर्वात्तन्नेत्यनुजानीहीत्येव साधु । ७४. वहिः स्वरितेत् । प्राद्वह इति परस्मैपदनियमात् प्रवहन्तीत्येव साधु । ७५. निगरणचलनार्थेभ्यश्चेति परस्मैपदनियमाद्भोजयतीत्येव साधु । ७६. अणावकर्मकाच्चित्तवत्कर्तृकात् इति शाययेत्येव साधु । अणौ शयतिश्चित्तवत्कर्तृकोऽकर्मकश्चेति स्पष्टम् । शिशुः शेते । ७७. मृष तितिक्षायां दिवादिः स्वरितेत् । परेर्मृष इति परिपूर्वस्य परस्मैपदनियमः । तेन परिमृष्येति वक्तव्यम् । अस्थाने चाय परिपूर्वस्य मृषेः प्रयोगः । मृष्यतिः स्वरितेत् तितिक्षायां पठितः । परिमृष्यतिस्तु क्रोधेऽसूयायां वा वर्तते । परिरथं विपर्यासयति ।१. निश्य, तेजय। २. कुष्ठितधारा। ३. धृष्टः । ४. निद्रालुः । ५. अपराधम् ।