पृष्ठम्:शब्दापशब्दविवेकः.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११२ शब्दापशब्दविवेके


६०. कृष्णश्चारणूरमाह्वयते युद्धं मे देहीति । ६१. शाङ्करं धनुरानम्य राम: सीतामुपायच्छत् । ६२. महीं भुङक्ते भुनक्तीति च महीमुगुच्यते भूपः । ६३. इह जगति विरला एव शमदमादिषट्कं सम्पत्तिमासाद्य ब्रह्म जिज्ञासन्ति विरलतरा एव च तद्विजानन्ति । ६४. श्लोकै राजानमुपष्ठिते१ कविः पारितोषिकं चादभ्रं२ लभते । ६५. अयं पन्थाः स्रुध्नमुपतिष्ठत्ययं पाटलिपुत्रम् । ६६. दृश्यतां तावत्क:कपाटमाहन्तीति । ६७. स्वर्णमुत्तपति स्वर्णकारो मूषायाम् । ६८. केचिदाहुर्न वयं गृध्यामोर्थेष किन्तर्ह्यर्था नो गर्धयन्तीति । ६०. स्पर्धायामाङ इत्याङ्पूर्वाद् ह्वयतेरात्मनेपदं युक्तम् । ६१. उपाद्यमः स्वकरणे इत्यात्मनेपदे उपायच्छतेति साधु । ६२. भुजोऽनवने इत्यवनवर्जितेऽर्थ प्रात्मनेपदम्, अवने (पालने) तु परस्मैपदमिति भुङ्क्ते (अनुभवति) भुनक्ति (पालयति) इत्युभयं साधु । ६३. ज्ञाश्रुस्मृदृशां सन इति सन्ताज्जानातरात्मनेपदविधिः, तेन जिज्ञासन्ते इत्येव साधु । ६४. उपान्मन्त्रकरणे (१।३।२५) इत्यनेनात्मनेपदस्याप्रसङ्गः । तिष्ठते- रर्थे यदा मन्त्रः करणं तदाऽऽत्मनेपदम् । नात्र मन्त्रः करणम् । उपस्थानं संनिधानम् भवति । इह मन्त्रस्य करणत्वोक्तेः स्तुत्यर्थं तदभिप्रेयते । ऐन्द्र्या गार्हपत्यमुपतिष्ठत इत्याद्युदाहरणम् । ६५. उपाद् देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यात्स्रुध्न- मुपतिष्ठत इति वक्तव्यम् । ६६. आङो यमहन इत्यकर्मकात् स्वाङ्गकर्मकाद्वा हन्तेराङ्पूर्वादात्मने- पदं विहितम् । अत्र कपाटमिति कर्म श्रूयत इति परस्मैपदं साधु। ६७. उद्विभ्यां तप इत्युद्विपूर्वात्तपतेरकर्मकात्स्वाङ्गकर्मकादाऽऽत्मने- पदविधिः स्मृतः । अत्र स्वर्णम् इति कर्मणः श्रवणात् परस्मैपदं साधु। ६८. अत्र वञ्चनार्थस्य विरहाद् गर्धयन्तीति साधु । गृधिवञ्च्योः प्रलम्भन इति वञ्चनेऽर्थे ण्यन्ताद् गृध्यतेरात्मनेपदं विहितम् ।१. स्तौति । २. अनल्पम् ।