पृष्ठम्:शब्दापशब्दविवेकः.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकार: १११


५१. धन्योऽयं द्विजन्मा योऽगाधे शब्दशास्त्रे शिक्षति । ५२. विप्रतिष्ठन्ते१ विस्फुलिङ्गा इति हसन्तीं२ मोपश्लिक्षः । ५३. ये समुदाचारमुच्चरन्ते३ तेऽवगीयन्ते । ५४. यत्र प्रदेशेऽभ्यधिक ऊष्मा, तत्रत्यो वायुरुच्चरति वाय्वन्तरं च रिक्तं तत्स्थानमापद्यते । ५५. संकटेनानेन४ मार्गेण संचरन्ति यानानि संघट्टन्ते । ५६. ह्य: संक्रीडत उदग्रेणाश्मनाऽभिहतस्यास्योरुपर्व व्यक्रमत । ५७. अरुणकरोदय एष वर्तते । वरतनु ! संप्रवदन्ति कुक्कुटा: । ५८. निपानं प्रति गा उपह्वयति गोपः । ५९. स साधिष्ठमुपकरोति लोकस्य यो रामायणं प्रकरोति । ५१. शकेजिज्ञासायामिति शिक्षते इत्येव साधु । शके: सनि लटि रूपम् । शक्तो भवितुमिचछतीत्यर्थः । ५२. समवप्रविभ्यः स्थ इत्यात्मनेपदे विप्रतिष्ठन्त इति साधु । ५३. उदश्चरः सकर्मकादित्युच्चरन्त इत्यत्रात्मनेपदं साधु। ५४. अत्रोच्चरतिरकर्मक इति परस्मैपदं साधु । ५५. समस्तृतीयायुक्तात् इति संचरमारणानि इत्येव साधु । ५६. क्रीडोनुसंपरिभ्यश्चेति संक्रीडमानस्येत्येव युक्तम् । वेः पादविहरणे इति विहितस्यात्मनेपदस्य नेह प्रसङ्गः । न ह्यत्र धातुः पाद- विहरणे (चरणविक्षेपे) वर्तते । किन्तर्हि ? शिथिलीभवने । तेन व्यक्रामदित्येव युक्तम् । ५७. व्यक्तवाचां समुच्चारणे इत्यात्मनेपदं विहितम् । व्यक्तवाच इति हि मनुष्याः प्रसिद्धा:, कुक्कुटास्तु न तथेति सम्प्रवदन्तीति साधु। ५८. निसमुपविभ्यो ह्व इत्यनेनात्मनेपदे उपह्वयत इत्येव साधु । ५९. गन्धनावक्षेपणेति सूत्रे सेवनशब्दोऽनुवृत्तिवचनः, इह त्वनुग्रहे साहाय्यदाने वा वर्तत इति नात्मनेपदनियमः । यथा नहि दीपौ परस्परस्योपकुरुत इति शाङ्करभाष्ये । प्रपूर्वः करोतिरत्र प्रकथने वर्तते तेन गन्धनादिसूत्रेणैवात्मनेपदं युक्तम् ।१. व्युच्चरन्ति । २. अङ्गारशकटीम् । ३. अतिलङ्घन्ते । ४. अवगीयन्ते निन्द्यन्ते । ५. संबाधेन, संकुचितेन ।