पृष्ठम्:शब्दापशब्दविवेकः.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शब्दापशब्दविवेके ११०


४२. इमे नेतारो जनानां संशयेषु महात्मनि श्रीगान्धिनि तिष्ठन्ति स्म । स महाभाग: सम्प्रति स्वर्यात इति वैक्लव्यमेषाम् । ४३. सत्योऽयमाभाणको१ मातृकं गावोऽनुहरन्ते२ पैतृकमश्वा इति । ४४. अन्यत्र विसंवदन्तोऽपि न प्रेत्यभावे व्यूदिरे३ प्राञ्चः । ४५. समधिमाहर सौम्य ! एषोऽहं त्वामुपनेष्यामि । ४६. यो हि केवलं वृत्तिहेतोरध्यापयते च्छात्रांस्तं ज्ञानपण्यं वरिण वदन्ति । ४७. महात्मानो हि न चिराय कुप्यन्ति । अनुनाथिताश्च४ कोपं विन- यन्ति शापादि च परिवर्तयन्ति । ४८. वायोर्विकुर्वाणादग्निरजायतेति प्रथते स्मृतिः । ४९. न वयमभ्यूहामस्तच्चेतसि किं वर्तत इति । ५०. यदीच्छसि लोकस्य प्रियः स्यामिति तर्हि सन्ततमभ्यस्य संस्कृतेन संभाषाम् । ४२. प्रकाशनस्थेयाख्ययोश्चेत्यनेन तिष्ठन्ते इत्येव साधु । महात्मा श्रीगान्धी स्थेय एषां नेतृणाम् इत्यर्थः । ४३. हरतेर्गतताच्छील्ये इत्यनुहरन्त इत्यत्रात्मनेपदं स्थाने । ४४. भासनोपसंभाषेत्यादिना व्यूदिरे इत्यत्रात्मनेपदम् । विमत्यर्थो ह्यत्र दिः । यजादित्वात् सम्प्रसारणम् । ४५. अत्राचायंकरणे विशेषणे नयतेः संमाननोत्सञ्जनेत्यादिनात्मने- पदमिष्यते । उपनेष्य इत्येव साधु । ४६. बुधयुधनशजनेङित्यादिना कर्त्रभिप्रायक्रियाफलेऽपि परस्मैपदवि- धानाद् अध्यापयतीत्येव न्याय्यम् । ४७. कोपं विनयन्ते इत्येव साधु । विनयन्तेऽपनयन्तीत्यर्थः । कर्तृस्थे चाशरीरे कर्मरणीत्यात्मनेपदनियमः । नयतिर्हि ञित् । भित्त्वादु- भयपदी । ४८. अकर्मकाच्चेति विकुर्वाणादित्यत्रात्मनेपदं वैधम् । विकुर्वाणाद् विकारं प्राप्नुवत इति यावत् । ४६. उपसर्गाद् अस्यत्यूह्योर्वावचनमिति पक्षे परस्मैपदं साधु । ५०. अभ्यस्येति लोण्मध्यमैकवचने साधु । इति निर्दुष्टो न्यासः ।१. लोकवाद:। २. गतं शीलयन्ति । ३. विवादं चक्रिरे, विपूर्वाद्वदेर्लिटि । ४. प्रार्थिताः ।