उपग्रहाधिकारः १०९
३२. शतं मे धारयसि । यदि न सहसे दातुं मा दाः । अपजानासि१ ।
किम् ?
३३. अयमध्ययनाय क्रमतेऽयं च खेलनाय । सहोदरावपीमौ विसदृशौ
शीलेन ।
३४. ते नाम जयिनो ये ऽन्तःस्थान् रिपूनधिकुर्वन्ति ।
३५. ये श्रियं प्राप्य न विकुर्वन्ति ते जितेन्द्रियाः ।
३६. अहो विक्रमन्ते वाजिनः। साधु विनीताः२ खल्वमी।
३७. दृश्यते लोके वृत्तिकर्शितो ब्राह्मणो व्यतिकृषति भूमिं हलेन ।
३८. अकृतात्मानो व्यतिघ्नन्ति विवेकविधुराः। इह चामुत्र च स्वा-
र्थाद् धीयन्ते ।
३९. सान्द्रायां तरुच्छायायामपस्किरन्ते श्वान प्राश्रयार्थिनः ।
४०. स्मृतमात्रो भगवान् विघ्नानपोहति प्रणतानाम्३ ।
४१. राजान्नं तेज आदत्त इति पराकुरुते राजप्रतिग्रहं द्विजः ।
अनुदात्तेत इति भाष्यस्वरसारिकतेरनुदात्तेत्त्वमेवोचितमिति
पश्यति ।
३२. अपह्नवे ज्ञ इत्यपजानीषे इत्येव साधु ।
३३. वृत्तिसर्गतायनेषु क्रम इति सर्ग उत्माहेर्थेऽत्रात्मनेपदमिति
सर्वमनवद्यम् ।
३४. अधेः प्रसहने इत्यात्मनेपदेन भवितव्यम् ।
३५. अकर्मकाच्च (१।३।३५) इत्यनेन विपूर्वात्करोतेरकर्मकादात्मनेपदं
विहितम् । तेन विकुर्वत इत्येव साधु । विकारं प्राप्नुवन्तीत्यर्थः ।
३६. वेः पादविहरणे इति विक्रमन्त इति साधु ।
३७. कर्तरि कर्मव्यतिहारे इति व्यतिहारे प्राप्तमात्मनेपदं साधु ।
३८. न गतिहिंसार्थेभ्य इति कर्मव्यतिहारे प्राप्तमात्मनेपदं प्रतिषिध्यते
तेन शेषात् कर्तरि परस्मैपदं सिद्धं भवति ।
३९. किरतेहर्षजीविकाकुलायकरणेषु इति वक्तव्यादत्रात्मनेपदं साधु ।
४०. उपसर्गादस्यत्यूह्योर्वा वचनमिति वात्मनेपदं भवति । तेनापोहति,
अपोहत इत्युभयं साधु ।
४१. अनुपराभ्यां कृञ इति परस्मैपदेनैव भवितव्यम् । तेन पराकरोति
इत्येव साधु । पराकरोति प्रत्याचंष्टे प्रत्यादिशति ।
१ अपलपसि । २ शिक्षिताः। ३. भक्तानाम् ।