१०८ शब्दापशब्दविवेके
२२. द्वन्द्वं न्यञ्चि१ यज्ञपात्राणि प्रयुनक्ति।
२३. सुहृदं देवदत्तमनुयोक्ष्यामि ह्यो मद्गेहे किमिति नोपातिष्ठ इति ।
२४. विजये ! जानीहि कः प्रतीहारमुपतिष्ठते ।
२५. भोजनकाल उपतिष्ठसे कार्यकाले क्व यासि ?
२६. श्याम: पितरि प्रतिकूलो मात्रा तु संजानीते२ ।
२७ नित्यः शब्द इति वैयाकरणाः प्रतिजानन्ति कार्य इति च नैया-
यिकाः ।
२८. न हि शास्त्रं विधवापुनरुद्वाहमभ्यनुजानीते व्यपेक्ष्यते तु सः ।
२९. अहमचिरेण वैद्यकाध्ययनमुपक्रमिष्यामि । अधीतं मया ज्यौतिषम्।
३०. इह नगर्यां साधूपक्रमते३ आतुरान्पीयूषपाणिर्धवसिद्धिर्नाम वैद्यः ।
३१. नवतन्त्रोऽयं वैद्यः । साधु चिकित्सत्यसाधु वेति विचिकित्सते
जनः ।
२२. अयज्ञपात्रेष्विति पर्युदासात्प्रयुनक्तीति परस्मैपदे साधु ।
२३. स्वराद्यन्तोपसृष्टादिति वक्तव्यादनुपूर्वाद्युजेरात्मनेपदेऽनुयोक्ष्य
इत्येव साधु । अकर्मकाच्चेत्यनेनोपातिष्ठथा इत्येव साधु ।
नोपातिष्ठथा उपस्थितो नाभूरिर्थः ।
२४. अकर्मकाच्च (१।३।२६) इत्यनेनोपपूर्वात् तिष्ठतेरकर्मकादात्मने-
पदं विहितम् । प्रकृते तु प्रतीहारः कर्म । तेनोपतिष्ठतीत्येव साधु ।
प्रतीहारो द्वारम् ।
२५. अकर्मकाच्चेत्युपतिष्ठसे इति साधु । उपस्थितः संनिहितो भवसी-
त्यर्थः
२६. सम्प्रतिभ्यामनाध्याने इत्यनाध्यानेऽर्थे सम्पूर्वाज्जानातेरात्मनेपदं
युक्तम् । मातर्यनुकूलः, मात्रैकमना भवतीत्यर्थः ।
२७. प्रतिजानते इत्येव साधु । उक्तो हेतुः । २८. अभ्यनुजानातीत्येव साधु । आत्मनेपदस्याप्रसक्तेः । २९. प्रोपाभ्यां समर्थाभ्यामित्युपक्रस्य इत्येव युक्तम् । ३०. उपक्रामतीत्येव साधु । उपशब्दो यदाऽऽदिकर्मणि तदा प्रोपाभ्यामित्यनेनात्मनेपदं भवति । अत्र तु भिषज्यतीत्यर्थः । ३१. गुपि प्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदत्तेत इति विचिकित्सतीत्येव साधु । हरिदीक्षितस्तु गुपतिजकितमाना१. न्युब्जीकृतानि । २ आनुकूल्येन वर्तते । ३. चिकित्सति, उपधरति । ४. सद्योऽभिविनीतः। ५. सन्दिग्धे ।