पृष्ठम्:शब्दापशब्दविवेकः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उपग्रहाधिकारः १०७


१३. बहुरूपोऽसौ यस्य कस्यापि रूपमातिष्ठते स्वेच्छया, न च निपुण- मीक्ष्यमाणोऽपि व्यक्तितः परिच्छिद्यते । १४. अद्य संस्थास्यते१ यज्ञ इति प्रस्थास्यन्तीतो याज्ञिकाः । १५. वर्षास्वयं सरोवरो जलधिमनुहरते, नाऽस्यावारपारे दृश्यते । १६. वञ्चयन्ति वणिज: स्वानपि, किम्पुन: परान् । १७ न पदा कृमिकीटादीनाक्रमेत न चाघ्नीत । १८. ते युत्सु महतीषु पराक्रामन् यशश्चानल्पमाप्नुवन् । १९. पश्य, आक्रमतेऽत्र धूमः कुटीरेभ्यः, मन्येऽग्निहोत्र जुह्वति वनौ- कसः। २०. नास्य गणितेऽप्रतिबन्धेन वर्तते बुद्धि., न्याये तु साधीयः क्रामति। २१. यो यज्ञगतोऽपशब्दान्प्रयुनक्ति स पतति । १३. अत्राङ् पूर्वस्तिष्ठतिराश्रयणे परिग्रहे वा वर्तते न तु प्रतिज्ञान इति परस्मैपदे आतिष्ठतीत्येव साधु १४. समवप्रविभ्यः स्थ इति संस्थास्यत इति साधु । तेनैव प्रस्थास्यन्ते इति च साधु । संस्थास्यते समाप्स्यति । प्रस्थास्यन्ते प्रयास्यन्ति । १५. हरतेर्गतताच्छील्ये तङ्विधिः । गतं गतिः । तस्य शीलनम् । तच्चेह नास्तीति तङोऽप्रसङ्गः । गतविधप्रकारास्तुल्यार्था इति मतान्तरेऽर्वाचीने तु यथास्थिते न दोषः । जलधेः सदृशो भवतीत्यर्थः। १६. गृधिवञ्च्योः प्रलम्भने इति वञ्चयन्ते इत्येव साधु । १७. अत्राकामेत् इत्येव साधु । आत्मनेपदस्याप्राप्तेः । १८. उपपराभ्यामित्मनेन सर्गे वर्तमानात् परापूर्वात् क्रमेरात्मनेपदेन भवितव्यम् । तेन पराक्रमन्तेत्येव साधु । १६. ज्योतिरुद्गमन इति वक्तव्यादाक्रामतीत्येव साधु । ज्योतिः- शब्देन च सूर्यादयो गृह्यन्ते । आक्रमते सूर्य इत्यात्मनेपद उदाहरणम् । २०. न्याये तु साधीयः क्रमते इति वक्तव्यम् । क्रमिरत्र वृत्तावप्रतिबन्धे वर्तत इति वृत्तिसर्गतायनेषु क्रम इत्यात्मनेपदम् । २१. प्रोपाभ्यां युजेरयज्ञपात्रेषु इति प्रयुङ्क्त इत्येव साधु ।१. समाप्स्यति ।