पृष्ठम्:शब्दापशब्दविवेकः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हल्सन्ध्यधिकारः १५


१००. सम्राजते सम्यक् छोभत इति सम्राट् । १०१. तदेतत् सहृदयाणामन्तःकरणस्थितयोर्जगतः पित्रोः करुणा- कटाक्षला अवतरणिकायाम्) १०२. मम चित्तपुष्पमपि ते चक्षुःपदे स्वीकुरु (करुणा० १२) । १०३. रूपौदार्यप्रपञ्चणचणाः पौराः (मोहभङ्गे १४६)। १०४. सत्प्रदीपाननवरतचितांच्छोभमानान् (मोहभङ्गे ४।१) । १०५. विप्रांच्छ्रु तिविधिचतुरान् (मोहभङ्गे ४१२) १०६. अहरहो नीलतेजः प्रपन्नः (करुणा० १०८) । १०७. कश्चिन्मृण्मयमीननक्रकमठम् (मोहभङ्गे ४।५) । १०८. एवं विधास्यति मतिः परिहीनदोषा (मोह० ७।३७) । १००. संराजत इत्येव साधु । मो राजि समः क्वावित्यनेन क्विबन्ते राजतौ समो मकारादेशोऽनुस्वारापवादो विधीयते । अत्र तु राजतिस्तिङन्तः। १०१. सहृदयाणाम् इत्यत्र णत्वं दुर्लभम् । अट कुप्वाङ्भिरेव व्यवाये ऋकाराद् रषाभ्यां चोत्तरस्य नस्य णत्वमभ्यनुज्ञायते । प्रकृते तु दकारेण व्यवायः । १०२. चक्षुःपदे इत्यत्र षत्वं दुर्वारम् । चक्षुःशब्द औरणादिको व्युत्पन्न इति पक्षे नित्यं समासेऽनुत्तरपदस्थस्येत्यनेन नित्यं षत्वम् । उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति पक्षे इदुदुपधस्य चाप्रत्य- यस्येत्यनेन । १०३. रूपौदार्यप्रपञ्चणचण इत्यत्र प्रपञ्चणे णत्वं दुष्यति । ञ्च- काराभ्यां व्यवधानात् । १०४. चितांच्छोभमानान् इत्यत्र पदान्तनकारस्यानुसारः कृतः, स दोषः । श्चुत्वेन ञकारेण भाव्यम् । चिताञ्च्छोभमानान् इत्येव साधु । १०५. विप्रांच्छ्रुति विधीत्यत्राप्यनन्तरपूर्वोदीरित एव दोषः । १०६. अहरहो नीलतेजः प्रपन्नः । अहरह र्नीलतेज इत्येव साधु । रोऽसु- पीति नकारस्य रेफः । १०७. मृण्मय इत्यपशब्दः । प्रत्यये भाषायां नित्यमिति मृदो दकारस्या- नुनासिको नकारः । णत्वे कर्तव्येऽयमसिद्ध इति णत्वमनव- काशम् । मन्मय इत्येवशब्दः । १०८. परिहीनदोषेति दुष्टम् । कृत्यच इत्यनेन णत्वमिष्यते। बहूनां साधारणो ऽयमपप्रयोगः ।