पृष्ठम्:शब्दापशब्दविवेकः.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ शब्दापशब्दविवेके


१०९. सीमा मर्यादा विसीव्यति देशाविति (नि. १।७।३) । ११०. स्त्रीत्वं हि मैथुनेन व्यवहारेणासौ निर्मिणोति । १११. स्वर्गार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके । सङ्ग्रहार्थं तु भृत्येषु भयार्थं पुन राजसु ॥ ११२. कथं रिपूनिषूदन इति श्रीरामायणे प्रयोगः । ११३. आधोरणा हस्तिपका हस्त्यारोहा निषादिन इत्यत्रामरे निषादयन्त्युपवेशयन्ति हस्तिनम् इति भानुजिदीक्षितः। विसर्गसन्ध्यधिकारस्तृतीयः १. को वर्णयेन्नृपगुणाञ्श्लोकः परःशतैरपि । २. अस्योद्यानस्य बहिःप्रदेशे तिष्ठ, यावदहं प्रत्यावर्ते

१०९. विषीव्यतीति तु युक्तम् । परिनिविभ्यः (८।३।७०) इत्यनेन सीव्यते: सकारस्य मूर्धन्यादेशविधानात् । ११०. निर्मिणोतीत्यत्र णत्वं दुर्लभम् । डुमिञ् प्रक्षेप इति धातुः श्नुविकरणः । १११. रोरि (८।३।१४) इति रलोपे ढ्रलोपे पूर्वस्य दीर्घोऽणः (६।३।१११) इति दीर्घ पुना राजसु इति वक्तव्यम् । ११२. रिपुषूदन इत्यत्र सुषामादित्वात् षत्वमिति श्रीरामायणे कतकटी- काकारो माधवयोगी । अशिष्टस्य शिष्टैरास्थितस्य षत्वस्य सुषामादित्वं कल्प्यमिति वृत्तिकारादयश्च । ११३. निषादयन्तीत्यत्र सदिरप्रतेः (८।३।६६) इत्यनेन षत्वमिति भ्रमः । प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणमित्यस्याः परिभाषाया हेरचङि (७।३।५६) इति कुत्वविधिरेव विषय इति प्रामाणिकाः । तेन निसादयन्तीत्येव साधु । इति हल्सन्धिविवेचनम् १. परश्शतैरित्येव साधु । सुटः परस्यादिवद्भावात्सकारस्य पदान्तता नास्ति । तेन सकारस्य श्चुत्वेन शकारः । २. बहिष्प्रदेशे इत्येव साधु । इदुदुपधस्य चाप्रत्ययस्येति विसर्जनीय- स्य षकारः।