पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः ।

५५

निवृत्तिस्तत्साधनं वा कार्यमिति नैमित्तिकादौकर्मणि कार्यबुद्धिव्यभिचारः । न च प्रवर्तकत्वमात्रम् । रागे कार्यबुद्ध्यभावात् । प्रैषादेरिष्टादेश्च वेदे व्यभिचारः प्रसिद्धः । प्रवृत्त्यभावविरोधी च रागो वा प्रवृत्तिर्वा हितादिर्वा, नान्यदित्युक्तम् । ननु कार्यबुद्धिसामर्थ्यादेवावलम्बनं कल्प्यताम् । सत्यम् । नान्यदतःकल्प्यते कृतिविषययोग्यतामात्रेऽवयवार्थे सम्भवति ।ननु कार्यमित्युक्ते प्रवर्तकरूपमपि किञ्चिदन्तर्गर्भितं प्रतीयते।सत्यम् । विषयस्य कृत्युपक्षेपयोग्यतालक्षणं हितसाधनत्वमेव तत् । ननु कार्यबुद्धौ हितसाधनता न प्रतीयते । नैवम् । प्रव- र्तकबुद्धौ तदप्यन्तर्गर्भितम् प्रतीयते । अथवा हितादे: कृतिनिष्पाद्यतायाश्च विलक्षणस्यालम्बनस्यानिरूपणात् , हितसाधनतालम्बनः प्रवर्तकरूपः कार्यमित्यभिनिवेशो राग एव ममेदं भूयादितिवद् न प्रमाणम् । प्रमाणहेत्वभावाच्च ॥ ५६ ॥ ५७ ॥

कथं,

नाक्षमापाततोऽभावान्नात:शब्दानुमे प्रमा ।

नार्थापत्तिरतो राग: कार्यमित्येव न प्रमा॥५८॥

न तावत् परस्य पराश्रये गवानयनादिस्वरूपे घटादौ वा प्रत्यक्षे तत्कार्यतापि प्रत्यक्षेणावसीयते, वर्तमानत्वात् । गवानयनादेस्तत्र कार्यत्वाभावाद् अनध्यक्षतेति चेद्, अवर्तमाने तर्हि गवानयनादौ तद्व्यपाश्रयस्य कार्यार्थस्य सुतरां न प्रत्यक्षता । नापि स्वातन्त्र्येण, अनवगमात् । ननु न गम-


१. ‘दौ च क', २. ‘त् क’ ३. ‘वादेवाव, ४. ‘र्हितं ख. ग. पाठः. ५. ‘ता प्र' क. पाठः. ६. ‘च्च ना’, ७. 'ष' ख. ग. पाठः