पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५४

शाब्दनिर्णयः।

वेतिकुतस्तुच्छताविवेकः । कार्यस्य च तुच्छवैलक्षण्यमिच्छता प्रतीतितोऽभावेऽप्यर्थतः कालसम्बन्धो वक्तव्यः । घटादिष्विव कालसम्बन्धानुमानात् । अपूर्वमपि लौकिककार्यबुद्धिव्यभिचाराद् न तदालम्बनम् । न च वेदेऽपि तत्सम्भवः । मानाभावात् । स्वर्गकामिनो यागकर्तव्यतान्यथानुपपत्तिरिति चेत् । सैव हि कर्तव्यता न निर्ज्ञायते । न नियोगादिरिति चोक्तम् । स्वर्गसाधनता चेत् कानुपपत्तिः । अपूर्वमन्तरेण क्षणप्रध्वंसिनो यागस्य कालान्तरवर्तिफलसाधनतानुपपन्ना। न तर्ह्यपूर्वमात्रेण तदुपपत्ति:,विशिष्टशरीरेन्द्रियाभावात् । तदप्यपेक्षितं लोकसिद्धानुमानेन गम्यताम् । तर्हि यागस्य स्वर्गसाधनत्वमपेक्षितार्थोपसंहारेऽपि न विरुध्यते चेत् , श्रुतिरमृतिशतसन्दृब्धादेवेश्वरात्तदवगतिगोचरनिवृत्तकर्मापेक्षया फलसिद्धेर्नापूर्वकल्पनावकाशः । नापि तस्य शब्दाभिधेयता। शब्दार्थानुपपत्तिगम्यत्वादगृहीतसम्बन्धत्वाच्च । न च तत्रैव सम्बन्धग्रहः। लिङाद्यभिधेयप्रकृत्यर्थकर्तव्यताद्वारेण तत्साधनद्वारेणैव वापूर्वकल्पनादेकस्मिन् प्रयोगे क्रमेणावगम्याभिधेयद्वयकल्पनायोगात् । न च लिङादिस्वरूपमात्रस्य पदान्तराभिधेयार्थस्य चा पूर्वमन्तरेणानुपपत्तिः। अभिधेयान्तराभावादनुपपत्त्यभावाच्च । तस्माद् वेदे नापूर्वं तदभिधानं वा कल्पनीयम् । अथ कृतिं प्रति प्रधानम् कार्यम् । किं तत् प्राधान्यम् । बुद्धिपूर्वकारिणः कृत्युपक्षेपयोग्यता, तर्हि सुखदुःख-


१. ‘ति’, २. ‘स्य सा', ३. ‘ष्टा’, ४. ‘रं’ ख. ग. पाठः ५. ‘माव, ६. ‘वा’ क. पाठः.