पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५६

शाब्दनिर्णयः।।

नादिक्रिया प्रत्यक्षा । अनुमेया तु । केन लिङ्गेन, व्यवस्थितस्य द्रव्यस्य कादाचित्कसंयोगविभागाभ्याम् । तथाहि- संयोगविभागजन्यं कार्यं कादाचित्कं स्वाश्रयसंयोगविभागलक्षणातिशयपुरस्सरं दृष्टम् । तथा संयोगविभागावपि कादाचित्कौ स्वाश्रयातिशयपुरस्सरौ । योऽसावतिशयः संयोगविभागहेतुः सा क्रियेति । नैतत् सारम् । या सा क्रिया सा । स्वाश्रये कादाचि(त्का ? त्की) वा न वा, न चेत् , संयोगविभागनित्यतापत्ते: कादाचित्कत्वादिति हेतोरसिद्धताप्रसङ्गः । कादाचित्की चेत् सापि स्वाश्रयातिशयपुरस्सरा वा न वा । न चेदनैकान्तिकस्तत्र हेतुः । अतिशयपुरस्सरा चेदनवस्थानात् संयोगविभागलक्षणधर्म्यसिद्धिप्रसङ्गः । अनादित्वात् परम्परया नासिद्धिरिति चेद्, न । अद्य जातस्य प्रथमक्रियोत्पत्ते: स्वाश्रयातिशयान्तरायोगात् तत्रानैकान्तिकत्वात् । अत एव न पराश्रया क्रियापि तत्संयोगविभागाभ्यां सिध्यति । किञ्च सतोरपि श्येनस्थाणुसंयोगविभागयोर्न स्थाणुः क्रियावानिति हेतोरनैकान्तिकता । स्वदेशसंयोगविभागौ देशिनः क्रियानुमानहेतुरिति चेत् । न । बलवदवधृतशरीरेषु सत्स्यादिषु स्रोतसि स्वदेशसंयोगविभागयोः सतोरपि क्रियाज्ञानाभावात् । किञ्च शब्दविद्युतोरिव क्षणिकत्वेऽपि चलतीति वर्तमानप्रत्ययाद् न फलेनातिवृत्तक्रियानुमानमेतदिति युज्यते । तस्मात् प्रत्यक्षैव क्रिया । अतः प्रत्यक्षक्रियाश्रयः स्वतन्त्रो वा न प्रत्यक्षगम्यः कार्यार्थ: । अतएव


१. ‘त्र स’ ग, पाठः