पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५०

शाब्दनिर्णयः ।

वक्षति । तर्हि स्वाभिमतनिर्वर्तनं प्रयोज्यस्याभिमतं निर्वर्तयतीति परम्परया कर्तुरभिलषितसाधनं विवक्ष्यत एव प्रयोक्त्रा। तस्माद् यथा पराभिमतकार्येऽपि प्रयोज्यप्रवृत्तिदर्शनात् तस्य स्वकर्तव्यताज्ञानमेवानुमाय तत्र सम्बन्धो गृह्यते, स्वकार्यज्ञानादेव प्रवृत्तेः। तथाभिलषितसाधनज्ञानेऽपीति न विशेषं पश्यामः । ननु जातस्य जन्तोराद्या करचरणविन्यासादिप्रवृत्तिर्न हितसाधनज्ञानात् । तस्य फलप्रसवोन्नेयत्वात् । ननु कार्यज्ञानं वा कुतो जायते । न तावत् प्रत्यक्षेणेति वक्ष्यते । सम्बन्धज्ञानाभावाद् नानुमानादिना । अथाबुद्धिपूर्वा सा प्रवृत्तिरिति हेतुर्न मृग्यते । इतरस्यापि तत् तुल्यम् । अथ जन्मान्तरीयकार्यज्ञानसंस्कारात् सा जायते । तथाविधादेवाभिलषितसाधनज्ञानसंस्कारात् सा किं न स्यात् । तस्मात् तत एव प्रवृत्तिरिति सिद्धम् ॥ ५३ ॥

ननु किमिदं हितसाधनत्वं नाम, किं वस्तुस्वरूप

मात्रं तद्धर्मो वा । न स्वरूपमात्रं, प्रत्यक्षगम्यत्वात् । तस्य साधनतायाश्च तथानवगमात् । न धर्मः। तत्सद्भावे प्रमाणाभावादिति । तत्राह-

अन्वयव्यतिरेकाभ्यां पदार्थातिशये प्रमा ।

जायतेऽन्यप्रयुक्तेषु व्यवहारोऽन्यथा कथम् ॥ ५४ ॥

अविशिष्टेऽपि पदार्थस्वरूपे फलप्रसवान्यथानुपपत्त्या

कश्चित् तत्साधनसामर्थ्यातिशयः कल्प्यते । ननु प्रवृत्तिविषयतामापन्नात् फलप्रसवो न स्वभावसिद्धात् , फलप्रसवोन्नीतसाधनाच्च प्रवृत्तिरितीतरेतराश्रयता । न । परप्रवृत्तिविषयी-