पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः ।

४९

एव कर्तुरर्थतः कार्येणोपरज्यते । तच्च शब्दादेवावगम्यते । गवानयनमात्रस्य कर्तुरभिलषितसमर्थनस्य व्यभिचारादनुमानेन कार्यतायाः प्रतिपत्तुमशक्यत्वात्, प्रवृत्तिद्वारेण तस्य कार्योपरागज्ञा(ना)योगादिति। तर्हि तस्यैव तथाविधहितसाधनत्वमुपदेशादेवावगम्यताम् । तस्य च गवानयनविशेषस्य सद्वारं हितसाधनत्वं कार्यत्वमिव कर्तुः स्वरूपप्रयुक्तमेव कल्प्यताम्, तथाविधफललक्षिते विशेषिते वा साधने लिङादिशब्दप्रयोग इति । यथा कर्तुः कृतिविशेषिते तदुपलक्षिते वा कार्ये लिङादिप्रयोगः, यथा वा पुरोवर्तित्वविशिष्टे तदुपलक्षिते वा घटादाविदंशब्दप्रयोगः । ननु प्रयोक्ता स्वात्मनोऽभिलषितसाधनं गवानयनं विवक्षति, न तु कर्तुरभिलषितसाधनं, तत्र कथं कर्तुरभिलषितसाधने शब्दप्रयोग: । अप्रयुक्ते च कथं तत्र सम्बन्धज्ञानम् । नैवैतच्चोद्यं,कार्येऽपि तुल्यत्वात् । प्रयोक्ता हि स्वात्मनः कर्तव्यं प्रतिपद्य परेण साधयितुं वचः प्रयुङ्क्ते । न प्रयोज्यस्य कर्तव्यं विवक्षित्वा प्रयुङ्क्ते । तत्र कथं नियोज्यस्य कार्ये शब्दसामर्थ्यं, नह्यन्यकार्यादन्यः प्रवर्तते । ननूपदेशे । प्रयोज्यकर्तव्यतैव विवक्ष्यते । हितसाधनतापि तथा प्रयोज्यं प्रत्येवोपदेशे विवक्ष्यते। अथ प्रैषादिष्वपि प्रयोक्ता स्वकर्तव्यनिर्वर्तनं प्रयोज्यस्यापि कर्तव्यमिति वि-


१. ‘च्छब्दा, २. ‘त् तद्द्वारे' ख. ग. पाठः. ३. 'नस्य', ४. ‘तद्वा', ५. ‘धि' ख. पाठः ६. ‘न क' ख. ग. पाठः ७. ‘न त’ क. पाठः ८. ‘न च क, ९. ‘त्व । त' ख. ग. पाठः