पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/५२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्

४८

शाब्दनिर्णयः ।

मनुस्मरन् पूर्वसिद्धगवानयनदृष्टहितसाधनतानुमानेन स्वयमेव प्रवर्तेत । आज्ञप्तत्वाच्चेद्, वेदे न प्रकृत्यर्थस्य हितसाधनतासिद्धि:, आज्ञप्तताभावात् । तदभावश्चापौरुषेयत्वाद् वेदस्येति। तत्राह-

साधनत्वं स्वतःसिद्धम्विशेषस्यतु कार्यवत्।

प्रधानाभिमतद्वारंप्रयोक्तापि विवक्ष्यते ॥ ५३॥

अत्र भवानपि चोदनीयः—किं गवानयनं स्वरू-

पेण कार्यं, किं वाज्ञप्ततयेति । स्वरूपेण चेत्, पक्षान्तरवद् गवानयनान्तरसिद्धं कार्यमनुस्मृत्य स्वयमेवानुतिष्ठेत् । कार्यार्थस्य प्रमाणान्तरायोग्यत्वात् ततोऽप्रतिपत्तेर्न शब्दमन्तरेण प्रवृत्तिरिति चेत्, तत्र प्रयोक्तुः प्रयोगश्च न स्यात् । अत एव प्रवृत्तिरपि श्रोतुर्न स्यात् , अप्रयुक्ताच्छब्दादर्थानधिगमात् ।आज्ञप्ततया चेद्, वेदे कार्योपरागाभावदाज्ञप्ततयैव च कार्यतासिद्धेर्न तत्र शब्दसामर्थ्यकल्पना । नाज्ञोपरागात् कार्यता, अध्येषणादौ वेदे चाभावप्रसङ्गात् । अथ प्रवर्तकमात्रोपरागः कार्योपरागः। स च स्वतो वा प्रेषणाध्येषणाभ्यनुज्ञानिबन्धनो वा । उभयथाप्युक्तो दोषः । अथ बालस्य स्वप्रवृत्तौ गवानयनं न स्वरूपेण कार्यम् । किं तु अभिलषितसमर्थनोपाधावेव प्रयोगाविषयमपि गवानयनमात्मनोऽभिल- षितं समर्थयत् कार्यं भवति । तच्चाभिलषितं प्रैषादिकर्तुरभिलषितसमर्थनद्वारेण कर्तुरपि समर्थ्यते । अतो गवानयनविशेष


१. ‘द्धं सवि' , २. ‘स्य का', ३. ‘तं ’ क. पाठः ४. ‘वः,आज्ञ, ५. ‘यगवानयनम’ क. पाठः