पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
शाब्दनिर्णयः।

४७

साधनमेव प्रवृत्तिहेतुः शब्दान्तरेणाभिधीयत इति न पक्षान्तरमेतत् । वयं तु हितसाधनस्यैव निष्पादनयोग्यता प्रवृत्तौ प्रतिबन्धनिरासेनोपकरणत्वेन वापेक्ष्यत इत्येतावद् ब्रूमः । ननु साधनसाधनेऽपि तद्विषयज्ञानात् प्रवर्तते। सत्यम् । साधनस्य परम्परया हितत्वमङ्गीकृत्य तत्साधनेऽपि ततः प्रवर्तते । तदेच्छालक्षणैव साक्षात्साधने प्रवृत्तिः। विशिष्टा तु पुनः साधनसाधने। एवंच सति प्रयाजाद्यङ्गविधयः क्रतोरेव हितत्वमङ्गीकृत्य तत्साधनतामेव विदधाति । भवतु वा हितसाधनगता कार्यता प्रवृत्तिहेतुः । तथापि न कार्यता शब्दार्थः । तथाहि - प्रतिपत्तु: प्रवृत्तिलिङ्गेनेष्टसाधनगतकार्यतावगमेऽनुमिते निष्पत्तियोग्यतालक्षणकार्यांशबुद्धेः प्रकृत्यर्थक्रियास्वरूपमात्रावगमादेवानुमानेन सिद्धेस्तत्र हितसाधनतांशे लिङादिप्रत्ययस्य सामर्थ्यं कल्प्यते । अन्यथासिद्धस्य शब्दार्थतानुपपत्तेः । न च गवानयनस्य तदानीमन्वयव्यतिरेकाभ्यां हितसाधनतावगमः, फलप्रसवादर्शनात् । नाप्यनुमानमानेन गवानयनस्याभिमतसाधनता, व्यभिचारात् । क्रियास्वरूपस्य कालोपबन्धविकलस्य निष्पादनयोग्यताव्यभिचाराभावाच्च । तस्मात् कर्तुरभिलषितसाधनमेव प्रवृत्तिहेतुतया लिङादिप्रत्ययार्थ इति स्थितम् ॥ ५२ ॥

अत्र कश्चिदाह-किं गवानयनं स्वरूपेण कर्तुरभि

लषितसाधनं किं वाज्ञप्तत्वात् । स्वरूपेण चेद्, गवानयन-


१. ‘याभिहि’, २. ‘च प्र' ख. ग, पाठः