पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः।

५१

कृतपदार्थप्रसूतफलदर्शनादपि तत्साधनतावगमात् । अन्यथा कथमभिलषितफलाय कस्यचिदेवोपादानलक्षणो व्यवहारः । तस्मादस्त्येवासावतिशयः। ननु प्रैषादिष्वभिप्रायभेदेषु निरूपितसम्बन्धा लिङादय: कथं हितसाधनतामभिदद्यु: । न । उपदेशे तदभिधानदर्शनात् । ननु तत्राप्यनुग्रहोऽभिधेयः। न । तदभावेऽप्यदृष्टभयादुपदेशात् तत्र हितसाधनत्वमेव विवक्ष्यते। प्रैषादिष्वपि परम्परया तद्विवक्षा दर्शिता । प्रवृत्तिहेतौ च सम्बन्धज्ञानादाज्ञामात्रादप्रवृत्तेः स एव शब्दार्थो नाज्ञादिः। तेषु सम्बन्धज्ञानाभावात् । बालस्य दृष्टान्ताभावाद् वक्तृप्रतिपत्रोरुत्कर्षापकर्षसुखविकारादिलिङ्गानुमेयतयान्यथासिद्धत्वाच्चाज्ञादीनाम् ।। ५४ ।।

किञ्च

रागात् प्रवृत्तेरिष्टादेस्तद्धेतुत्वान्न कार्यता ।

प्रवृत्तिहेतू रागश्चेन्न शाब्द:साक्षिसिद्धितः॥ ५५॥

ननु रागस्य कार्यताज्ञानमेव हेतुः । न। सतीष्टादावु-

त्पत्तेरसति चानुत्पत्तेरिष्टादिरेव । तन्निमित्तम् । नन्विष्टादेः कार्यज्ञानं ततो राग इति कारणकारणतया अन्यथासिद्धिरस्ति । तन्न । यदि कृतिविषयीकारयोग्यता कार्यता, सा प्रकृत्यर्थलक्षणक्रियास्वरूपज्ञानादेव कालसम्बन्धज्ञानविकला स्वनिष्पादितपूर्वसिद्धक्रियानिदर्शनानुमानेन सिध्यति,नेष्टसा-


१. ‘वाति' ख. ग. पाठः