पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

शाब्दनिर्णयः ।।

35

भाव्यनिष्ठो धात्वर्थकरणः प्रयाजादीतिकर्तव्यताकोऽर्थभावनालक्षणः करोत्यर्थेऽभिधेयः । तत्र वाभिधेयार्थभावनाज्ञानजननो1 लिङादिशब्दव्यापारः स्वाभिधेयार्थभावनामपि भावयतीति विशेषः । कथम् । लिङादि2शब्दश्रवणानन्तरं प्रवृत्तिदर्शनाच्छब्दमात्रस्यागृहीतसम्बन्धस्याप्रवर्तकत्वात् प्रवृत्तिहेतुं कश्चिदर्थमभिधाय शब्दः प्रवर्तयतीति गम्यते । तत्रार्थान्तराभिधानकल्पनायां कल्पनागौरवात् स्वाभिधानव्यापारमभिधेयज्ञानजननलक्षणमभिधाय तद्वारेणार्थभावना3 प्रवृत्तिं जनयतीति परिशेषार्थापत्तिभ्यां 4गम्यते । ततश्चार्थभावनाभाव्यनिष्ठा शब्दभावना । न केवलं तज्ज्ञानभाव्यनिष्ठाभिधानजन्यं शब्दभावनाविषयं विज्ञानं प्रवर्तकज्ञानत्वात् प्रवृत्तिलक्षणभाव्यनिष्पादनद्वाहरेण शब्दभावनां प्रति करणतामश्नुते । अंशत्रयसहितार्थभावनाविषयतुतिनिन्दार्थवादादिज्ञानमपि प्ररोचनाद्वारेण प्रवृत्तिहेतुत्वाच्छब्दभावनां प्रतीतिकर्तव्यतामनुभवति । तदेवमंशत्रयसहिता शब्दभावना शाब्दव्यवहारे प्रवृत्तिहेतुरिति स्थितम् ॥ ४५ ॥

एतन्निराचष्टे-

प्रवृत्तिहेतुर्दष्टान्ते न दृष्टा शब्दभावना ।

लोकसिद्धेऽपि शब्दार्थे नार्थापत्तिश्च गौरवात् ॥ ४६॥


१. ‘ने’, २. ‘दिश्र, ३. ‘नां’, ४. ‘कल्प्यते’ क. पाठः. ५. ‘क’ ख. पाठः