पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३६

शब्दनिर्णयः ।

न तावादियं शब्दभावना बालेन प्रवृत्तिहेतुतया स्वा-

त्मनि समधिगता, येन प्रतिपत्तुरपि शब्दार्थतयानुमीयेत । न च परिशेषार्थापत्तिभ्यां स्वाभिधेयाभिधानमवगम्यते, लोकसिद्धकार्यानुमानेनैवान्यथासिद्धेः । एकस्य शब्दस्य शब्दार्थभावनाभिधेयद्वयकल्पनागौरवं च । अभिधेयज्ञानगम्ये चाभिधानव्यापारे न तत्र शब्दसामर्थ्यकल्पना, अन्यथासिद्धत्वात् तज्ज्ञानस्य । नच युगपदेकस्माच्छब्दादभिधेयद्वयविषयज्ञानद्वयोत्पादः, कर्तृसङ्ख्यार्थभावनयोरिव शब्दार्थभावनयोरेकवाक्यताभावात् । न च क्रमेण, शब्दस्य विरम्यव्यापाराभावात् । तस्मात् स्वरूपानुपपत्तेरप्रवर्तकत्वाच्च तस्या: कार्यमेव प्रवृत्तिहेतुरिति स्थितम् ॥ ४६ ॥

अत्रोच्यते -

अन्वयव्यतिरेकाभ्यामुपदेशादिभूमिषु ।

व्युत्पाद्यन्तेऽन्यसंसृष्टे बालाः कार्यान्वितेन तु॥ ४७॥

न च शब्दसमनन्तरजन्यप्रवृत्तिलिङ्गानुमानैकोपायैव

शब्दार्थसम्बन्धावगतिः। किन्तूपदेशोपायादपि । तथाहि- बालेभ्यो जनन्यादिभिः प्रायेणोपदिश्यन्ते शब्दार्थसम्बन्धाः। ते च तत्र प्रयोगप्रत्यययोरिवान्वयव्यतिरेकाभ्यां विशेषसम्बन्धमवधारयन्ति । नन्वयं घटोऽयं पट इत्याद्युपदेशोऽपि प्रयोगमूल एव । प्रयोगे च कार्यान्विते सङ्गतिग्रहः, तेनोपदेशोऽपि कार्यनिष्ठ इति । तन्न । प्रयोगस्याप्युपदेशमूलत्वसम्भवान्नेदम्प्रथमता तयोः , परस्परमूलतोपपत्तेः । न च


१. ‘न यु' क. पाठः