३४
शाब्दनिर्णयः ।
इति । अथवा हितसाधनज्ञानाधीनत्वात् कार्यादिबुद्धेस्तदेव कार्यताबुद्धिद्वारेण प्रवृत्तिनिमित्तमिति तत्रैव शब्दसामर्थ्यं कल्प्यत इत्यत आह –
कार्यं नेष्टाभ्युपायत्वं१कृतिव्याप्यं हि तत् स्मृतम् ।
तदेवाव्यवधानात् तत्सिद्धत्वेऽपि प्रवर्तकम् ॥ ४५॥
प्रसिद्धस्तावत् कार्येष्टसाधनयोर्भेदः। इष्टसाधनज्ञाना-
धीनमपि कार्यताज्ञानमव्यवधानात् प्रवृत्तिनिमित्तमुच्यते । न ह्यन्वयव्यतिरेकाधीनं हितसाधनमन्वयव्यतिरेकेण २प्रवृत्तिनि- मित्तम् । तस्मात् कार्यमेव प्रवृत्तिहेतुरिति स्थितम् । तत्र केचिदाहुः – शब्दव्यवहारे शाब्दभावना । प्रवृत्तिहेतुरिति । तत्राभूतप्रादुर्भावफलं करोत्यर्थमात्रं भावना । तत्रार्थव्यापारोऽर्थभावना।शब्दव्यापारस्तु स्वाभिधेयज्ञानजननलक्षणः शब्दभावना । सा च शब्दकर्तृकार्थज्ञानभाव्यनिष्ठा शब्दज्ञानकरणिका सम्बन्धज्ञानसंस्कारेतिकर्तव्यताका सर्वशब्दानामविशेषवती। लिङादिशब्दे३तु भिद्यते । सा४लिङादिकर्तृकार्थभावना५- लक्षणपुरुषप्रवृत्तिभाव्यनिष्ठा स्वज्ञानकरणिका स्तुतिनिन्दार्थवादादिज्ञानेतिकर्तव्यताका च समाश्रीयते। कथम् । पाकं करोतीति पचतीत्याख्यातार्थस्य करोतिना व्याख्यानात् सर्वाख्यातानां तावत् करोत्यर्थेऽभिधेय:६। लिङादीनां तु विधिविवक्षया प्रयुज्यमानानां चेतनविषयप्रयोगित्वात् पुरुषप्रयत्नः पुरुषार्थ-
१. त्वात् कृ’, २. ‘को न प्र’ ख. ग. पाठः. ३. ‘ब्देषु तु, ४. ‘सा हि लि' कः पाठः ५. ‘ना च न पु' ख. पाठः ६. ‘यं’ ग, पाठः