शाब्दनिर्णयः।
२७
व्यतिरेकावुपेक्ष्येयाताम् । न च । शब्दस्य स्मृतिहेतुसंस्कारोद्बोधकतयान्यथासिद्धिः, संस्कारोद्वोधस्य स्मृतिव्यतिरिक्तस्यानिरूपणाद्, वक्त्रादिविषयसंस्कारोद्वोधकप्रसङ्गाच्च । तस्मात् सम्बन्धज्ञानसंस्कारविशिष्टमभिधानमेव पदार्थज्ञानेषु पुष्कलकारणमिति नियमेनानुवाद एवैष जायते । पूर्वोपलम्भतद्देशकालादिसम्भेदरहितत्वाच्च न स्मृतिः । किंच संसर्गज्ञानसमयेऽपे पदार्थांशेषु संस्काराणां भावात् स्मृतिमात्रोपपत्तेर्न कदाचिदपि तेष्वभिधानकार्यं सिध्येत् । ततश्च शक्तिसम्बन्धज्ञानान्न१ सम्बन्धिदर्शनात् सम्बन्ध्यन्तरस्मृति:।न हि संसर्गज्ञानसमये सत्स्वपि संस्कारेषु अभिधानजनिता पदार्थबुद्धिर्न प्रागिति नियन्तुं शक्यते । तस्मादभिधानजन्योऽयमनुवादः। स एव चेकैकस्मात् पदात् प्रथममुत्पद्यते , पुनस्तेभ्य एवेतरेतरसहकारिभ्यः संसर्गः प्रतीयते शक्तिकल्पनालाघवादिति स्थितम्२।। ३५ ॥
अपिच प्रमाणान्तरावसितपदार्थेभ्यः संसर्गे प्रमीय
माणे कथं शब्दोपलब्ध्यन्वयव्यतिरेकवतः संसर्गप्रत्ययस्य
पदार्थहेतुत्वं कल्प्यते । स्यादेतत् । पदार्थानां संसर्गव्यापारं तच्छक्तिं वा पदान्यभिव्यञ्जयन्ति न प्रमाणान्तरं, ततश्च संसर्गप्रत्ययः । किञ्च सम्बन्धज्ञानात् प्राक् पदानामदृश्यमाने संसर्गहेतुत्वे क्रमवत्पदार्थावगमात् पराचीनः संसर्गप्रत्ययः कथं शब्दनिबन्धनः स्यादिति । तत्राह-
१. ‘नं न स' ख. ग. पाठः २. ‘तिः ॥' क. पाठः