२८
शाब्दनिर्णय:'
संसर्गशक्तेर्न व्यक्तिर्व्यापारस्यापि शब्दत:।
नाभिधेयद्वयं१तद्धि न शब्दः कारणं तयोः॥ ३६ ॥
न च पदस्याभिधेयविषयं व्यापारान्तरमस्ति , येन
पदार्थावगतौ संसर्गशक्तितद्व्यापारौ व्यज्येयाताम् । न च पदेभ्यस्तयोः प्रतिपत्तिः, अनभिधेयत्वात् । न च पदजन्यं विज्ञानं पदार्थातिशयहेतुः ज्ञानस्य स्वविषयविकाराहेतुत्वात्। न च सम्बन्धग्रहणापेक्षया संसर्गप्रतिपादकेषु पदेष्वानुषङ्गिकपदार्थप्रतिपत्तेः संसर्गहेतुत्वम् शक्यते कल्पयितुम्, शक्तिकल्पनागौरवाद् ,अन्यत्रादृष्टसामर्थ्यत्वाच्च। न च पदार्थेषु पदावगतेषु कश्चिदतिशयो न मानान्तरावगतेष्विति युक्तम् । तस्मात् पदनिबन्धनः संसर्गप्रत्ययः ॥ ३६ ॥
ननु
‘‘पश्यतः श्वेतिमारूपं (?) हेषाशब्दं च शृण्वतः।।
खुरनिष्पेषशब्दम् च श्वेतोऽश्वो धावतीति धीः२ ॥"
इति पदार्थेभ्योऽपि संसर्गप्रत्ययो दर्शित:,इत्यत आह –
नार्थाधीनस्तु संसर्गबोधो मानान्तरं विना ।
परिशेषानुमानाद्धि श्वेतोऽश्वो धावतीति धीः।। ३७॥}
खुरनिष्पेषशब्दानुमितस्य धावनस्य परिदृष्टस्य श्वै
त्यस्य च धर्म्यपेक्षायां द्रव्यान्तरस्यासम्भावनात् परिशेषाद्धेपा-
१. ‘यं’ क. पाठः. २. ‘श्रीः प' ख. ग. पाठः
- 'श्वेतिमं रूपम्' इति स्यात् । श्वेतिमशब्दाद् अर्शआद्यचि श्वेतिमं
श्वैत्ययुक्तमित्यर्थः । रूपमाकृतिम् ।