शाब्दनिर्णयः
।
२५
क्रमेणावगतानर्थान् युगपत् संहतानथ।
प्रमिमीरन् पदानीति नान्योन्याश्रयदोषता ॥ ३३ ॥
अन्योन्यानपेक्षमेव पदेभ्य: पदार्थाः क्रमेण प्रतीयन्ते।।
अन्त्यपदोच्चारणानन्तरं च तानेव पदार्थानितरेतरसंसर्गितया तान्येव प्रतिपादयन्ति पदानीति न दोषः । अथवा नेहानन्वयिपदार्थावगतिः पूर्वभाविन्यपेक्ष्यते।किं त्वानुषङ्गिकी सा, अतो युगपत् परामृष्टानि पदानि संसर्गं प्रतिपादयन्तीत्यभिधीयमानेनैवान्वय इति स्थितम् । तस्मात् प्रयोगसमयेऽन्वयव्यतिरेकाभ्यां न स्वरूपमात्रे समर्थ्यमवधारितं, किन्तु संसर्गे इति स्थितम् । यत्त्वेकैकस्मात् पदात् पदार्थमात्रमेवावसीयते, न संसर्गः, अतस्तत्रैव सामर्थ्यमिति । तदपि न । संसर्गसमर्थस्यैव सहकारिविकलस्य . स्वरूपमात्रेऽपि बुद्धिहेतुत्वोपपत्तेः । अन्यथा पदानाम् पदार्थेषु शक्तय:, पदार्थानां च संसर्गे शक्तय इति शक्तिकल्पनागौरवं च स्यात् । स्यादेतत्१। पदपक्षेऽपि पदार्थान्तरविशिष्टस्वार्थे सामर्थ्यमिति शक्तेः सविशेषणत्वं प्रसज्यत इति । तन्न । अर्थशक्तेरप्यर्थान्तरव्यावृत्तस्वात्मविषयत्वेन सविशेषणत्वात् । अतः पदार्थस्वरूपानुवादेन संसर्गबुद्धिः पदेभ्य एवेप्यताम् । अत्राह कश्चिद् – नाभिधानसामर्थ्यजन्योऽनुवादः पदात् पदार्थबुद्धिः। किन्तु स्मृतिप्रमाणसंशयविपर्यासानामन्यतमेन पदात् पदार्थज्ञानेन भवितव्ये परिशेषात् स्मृतिरेवैषा । सा च पूर्वोपलम्भ-
१. ‘कत्वप’ ख. पाठः