२४
शाब्दनिर्णयः।'
नीलपीतादिविज्ञानकार्यभेदः।तर्हि शब्देष्वपि सहकारिभेदात् कार्यभेदो न दण्डवारितः ॥ । ३१ ॥
ननु प्रतिविशेषमभिधेयभेदानन्त्यात् सम्बन्धग्रहणम
शक्यसम्पादनम् । शक्यसम्पादने च शब्दोऽनुवादक एव
स्यात् । अर्थपक्षे न सम्बन्धज्ञानापेक्षा, शब्दधर्मत्वादस्येत्यत आह-
उपलक्षणयोगेन धूमाग्न्योरिव सङ्गते: ।
व्युत्पत्तियोगो नातः स्यात् संसर्गेष्वनुवादता ॥ ३२ ॥
यथैह धूमजातीयानामग्निजातीयैर्व्याप्तिरित्युपलक्ष
णयोगेन विशेषाणामपि सम्बन्धो गृह्यते , तावतैव विशिष्टदेशे धूमविशेषदर्शनात् तथाविधाग्निविशेषोऽपि गम्यते । न
च सावगतिरनुवादः। एवं योग्येतरत्वोपलक्षितविशेषसंसृष्टस्वार्थे सामर्थ्यमित्युपलक्षणोपादानेन कृत्स्नसंसर्गसामर्थ्यप्रतिपत्तावपि न विशिष्टसमभिव्याहाराद् विशिष्टसंसर्गप्रतिपत्तिरनुपपन्ना । नापि सा प्रतिपत्तिरनुवादः, वह्निसामान्यमात्रवदनुमाने पदार्थस्वरूपमात्रं शाब्दे संसर्गेऽनूद्यत एव । उपलक्षणेऽपि स्वरूपमात्रस्य नियमेन प्रमाणान्तरसिद्ध्यपेक्षणात् । अतः संसर्गे नानुवाद इति सिद्धम् ॥ ३२ ॥
स्यादेतद्: — यदि पदान्तरेणानभिहितेन संसृष्टं गोत्वं
गोशब्देनाभिधीयेत, तदा पदान्तरवैयर्थ्यं स्यात्। अथाभिहितेन, तदेतरेतराश्रयता। आनयनेऽभिहिते तदन्वितं गोत्वं गोशब्दोऽभिधत्ते । गोत्वे चाभिहिते तदन्वितमानयनमानयतिरिति । तत्राह—