पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
शिवानन्दलहरी ।


अमितमुदमृतं मुहुर्दुहन्तीं
 विमलभवत्पदगोष्ठमावसन्तीम् ।
सदय पशुपते सुपुण्यपाकां
 मम परिपालय भक्तिधेनुमेकाम् ।। ६८ ॥

जडता पशुता कलङ्किता
 कुटिलचरत्वं च नास्ति मयि देव ।
अस्ति यदि राजमौले
 भवदाभरणस्य नास्मि किं पात्रम् ॥ ६९ ।।

अरहसि रहसि स्वतन्त्रबुद्ध्या
 वरिवसितुं सुलभ: प्रसन्नमूर्तिः ।
अगणितफलदायकः प्रभुर्मे
 जगदधिको हृदि राजशेखरोऽस्ति ।। ७० ।।

आरूढभक्तिगुणकुञ्चितभावचाप-
 युक्तैः शिवस्मरणबाणगणैरमोधैः ।
निर्जित्य किल्बिषपरिपून्विजयी सुधीन्द्रः
 सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१ ॥