पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
शिवानन्दलहरी।


वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं
 भूभृत्पर्यटनं नमत्सुरशिर:कोटीरसंघर्षणम् ।
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं
 मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु ।। ६४ ॥

वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः
 कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
 यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ ६५ ।।

क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जना
 यत्कर्माचरितं मया च भवत: प्रीत्यै भवत्येव तत् ।
शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
 तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया || ६६ ॥

बहुविधपरितोषबाष्पपूर-
 स्फुटपुलकाङ्कितचारुभोगभूमिम् ।
चिरपदफलकाङ्क्षिसेव्यमानां
 परमसदाशिवभावनां प्रपद्ये ॥ ६७ ।।