पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
शिवानन्दलहरी ।


ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं
 भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः ।
दिव्याश्रितं भुजगभूषणमुद्वहन्ति
 ये पादपद्ममिह ते शिव ते कृतार्थाः ।। ७२ ॥

भूदारतामुदवहद्यदपेक्षया श्री-
 भूदार एव किमतः सुमते लभस्व ।
केदारमाकलितमुक्तिमहौषधीनां
 पादारविन्दभजनं परमेश्वरस्य ॥ ७३ ॥

आशापाशक्लेशदुर्वासनादि-
 भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।
आशाशाटीकस्य पादारविन्दं
 चेत:पेटीं वासितां मे तनोतु ॥ ७४ ।।

कल्याणिनं सरसचित्रगतिं सवेगं
 सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् |
चेतस्तुरङ्गमधिरुह्य चर स्मरारे
 नेतः समस्तजगतां वृषभाधिरूढ ॥ ७५ ॥