पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः॥
॥ गौरीदशकम् ॥


लीलालब्धस्थापितलुप्ताखिललोकां
 लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुञ्जां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ।। १ ।।

प्रत्याहारध्यानसमाधिस्थितिभाजां
 नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।
सत्यज्ञानानन्दमयीं तां तनुरूपां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
 चन्द्रापीडालंकृतनीलालकभाराम् ।
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥