पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५३
मन्त्रमातृकापुष्पमालास्तवः ।


श्रीमन्त्राक्षरमालया गिरिसुतां यः पूजयेच्चेतसा
 संध्यासु प्रतिवासरं सुनियतस्तस्यामलं स्यान्मनः ।
चित्ताम्भोरुहमण्टपे गिरिसुता नृत्तं विधत्ते रसा-
 द्वाणी वक्रसरोरुहे जलधिजा गेहे जगन्मङ्गला ॥ १६ ॥

इति गिरिवरपुत्रीपादराजीवभूषा
 भुवनममलयन्ती सूक्तिसौरभ्यसारैः ।
शिवपदमकरन्दस्यन्दिनीयं निबद्धा
 मदयतु कविभृङ्गान्मातृकापुष्पमाला ॥ १७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्थ
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
मन्त्रमातृकापुष्पमालास्तवः संपूर्णः ॥