पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


क्षीरमेतदिदमुत्तमोत्तमं
 प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
मातरेतदमृतोपमं पयः
 संभ्रमेण परिपीयतां मुहुः ।। ३२ ।।

उष्णोदकैः पाणियुगं मुखं च
 प्रक्षाल्य मात: कलधौतपाने ।
कर्पूरमिश्रेण सकुङ्कुमेन
 हस्तौ समुद्वर्तय चन्दनेन ।। ३३ ॥

अतिशीतमुशीरवासितं
 तपनीये कलशे निवेशितम् ।
पटपूतमिदं जितामृतं
 शुचि गङ्गाजलमम्ब पीयताम् ॥ ३४॥

जम्ब्वाम्ररम्भाफलसंयुतानि
 द्राक्षाफलौद्रसमन्वितानि ।
सनारिकेलानि सदाडिमानि
 फलानि ते देवि समर्पयामि ॥ ३५ ॥