सामग्री पर जाएँ

पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२७
देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ।


कूश्माण्डकोशातकिसंयुतानि
 जम्बीरनारङ्गसमन्वितानि ।
सबीजपूराणि सबादराणि
 फलानि ते देवि समर्पयामि ॥ ३६ ।।

कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैः
 सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।
मात: कैतकपत्नपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः
 सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ।। ३७ ॥

एलालवङ्गादिसमन्वितानि
 तक्कोलकर्पूरविमिश्रितानि ।
ताम्बूलवल्लीदलसंयुतानि
 पूगानि ते देवि समर्पयामि ॥ ३८ ॥

ताम्बूलनिर्जितसुतप्तसुवर्णवर्णं
 स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् ।
सौवर्णपात्रनिहितं खदिरेण सार्धं
 ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ।।