पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे
 युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी ।
तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी
 करोतु भगमालिनी स्फुरतु मामके चेतसि ॥ ९७ ।।

सर्वानन्दमये समस्तजगतामाकाङ्किते बैन्दवे
 भैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी ।
आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषाम्बरा
 विस्फूर्जद्वदना परापररहः सा पातु मां योगिनी ॥ ९८ ॥

उल्लसत्कनककान्तिभासुरं
 सौरभस्फुरणवासिताम्बरम् ।
दूरत: परिहृतं मधुव्रतै-
 रर्पयामि तव देवि चम्पकम् ॥ ९९ ॥

वैरमुद्धतमपास्य शंभुना
 मस्तके विनिहितं कलाच्छलात् ।
गन्धलुब्धमधुपाश्रितं सदा
 केतकीकुसुममर्पयामि ते ॥ १०० ।।