एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।
चूर्णीकृतं द्रागिव पद्मजेन
स्वदाननस्पर्धिसुधांशुबिम्बम् ।
समर्पयामि स्फुटमञ्जलिस्थं
विकासिजातीकुसुमोत्करं ते ।। १०१ ॥
अगरुबलधूपाजस्रसौरभ्यरम्यां
मरकतमणिराजीराजिहारिस्रगाभाम् ।
दिशि विदिशि विसर्पगन्धलुब्धालिमालां
बकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२ ।।
ईकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ
त्रैलोक्ये गुरुगम्यमेतदखिलं हार्दे च रेखात्मकम् ।
इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय-
न्नानन्दाम्बुधिमज्जने प्रलभतामानन्दथुं सज्जनः ।।१०३॥
धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरं
दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् ।
रत्नवर्णविनिर्मितेषु परितः पावेषु संस्थापितं
नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥१०४॥