पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०९
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

लसद्युगहशारके स्फुरति सर्वसौभाग्यदे
 शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे ।
स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणी-
 मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः ॥९२॥

बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः ।
 कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ।। ९३ ॥

अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे
 मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः ।
नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्याम्बरं
 सर्वज्ञादिकशक्तिवृन्दमनिशं वन्दे निगर्भाभिधम् ॥५४॥

सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते ।
 रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम् ।। ९५ ॥

चूताशोकविकासिकेतकरज:प्रोद्भासिनीलाम्बुज-
 प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् ।
रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कुशं
 वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ॥१६॥

s S. 14