पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०८
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

हृदयमथ शिरः शिखाखिलाद्ये
 कवचमथो नयनवयं च देवि ।
मुनिजनपरिचिन्तितं तथास्त्रं
 स्फुरतु सदा हृदये षडङ्गमेतत् ॥ ८८ ॥

त्रैलोक्यमोहनमिति प्रथिते तु चक्रे
 चञ्चद्विभूषणगणत्रिपुराधिवासे ।
रेखात्रये स्थितवतीरणिमादिसिद्धी-
 र्मुद्रा नमामि सततं प्रकटाभिधास्ताः ॥ ८९ ।।

सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते
 विस्फूर्जत्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः ।
कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्याम्बरा
 योगिन्यः प्रदिशन्तु काङ्क्षितफलं विख्यातगुप्ताभिधाः ।।

महेशि वसुभिर्दलैर्लसति सर्वसंक्षोभणे
 विभूषणगणस्फुरत्रिपुरसुन्दरीसद्मनि ।
अनङ्गकुसुमादयो विविधभूषणोद्भासिता
 दिशन्तु मम काङ्कितं तनुतराश्च गुप्ताभिधाः ॥९१||