पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०७
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

उड्यानजालंधरकामरूप-
 पीठानिमान्पूर्णगिरिप्रसक्तान् ।
त्रिकोणदक्षाग्रिमसव्यभाग-
 मध्यस्थितान्सिद्धिकरान्नमामि ।। ८४ ।।

लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु-
 स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः ।
आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता-
 नेताश्चक्रबहि:स्थितान्सुरगणान्वन्दामहे सादरम् ।।

तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथं
 त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम् ।
रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं
 नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे ॥

हृदि भावितदैवतं प्रयत्ना-
 भ्युपदेशानुगृहीतभक्तसंघम् ।
स्वगुरुक्रमसंज्ञचक्रराज-
 स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना ॥ ८७ ॥