पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ।

संतुष्टीष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां
 पुष्पौधैरभिपूजितां भगवतीं त्वां वन्दमाना मुदा ।
स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदा:
 श्रीचक्रावरणस्थिता; सविनयं वन्दामहे देवताः ।।

आधारशक्त्यादिकमाकलय्य
 मध्ये समस्ताधिकयोगिनीं च ।
मित्रेशनाथादिकमत्र नाथ-
 चतुष्टयं शैलसुते नतोऽस्मि ।। ८१ ॥

त्रिपुरासुधार्णवासन-
 मारभ्य त्रिपुरमालिनी यावत् ।
आवरणाष्टकसंस्थित-
 मासनषट्कं नमामि परमेशि ।। ८२ ॥

ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदं
 वायव्ये वटुकं च कजलरुचिं व्यालोपवीतान्वितम् ।
नैर्ऋत्ये महिषासुरप्रमथिनीं दुर्गा च संपूजय-
 न्नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे ॥८३॥