पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२७
सौन्दर्यलहरी।


सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते
 मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।
शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां
 भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥ ८ ॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं
 स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं
 सहस्रारे पद्मे सह रहसि पत्या विहरसे ।। ९॥

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः
 प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।
अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं
 स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥ १० ॥

चतुर्भि: श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
 प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।
चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-
 त्रिरेखाभिः सार्धं तव शरणकोणा: परिणताः ॥ ११ ॥