पृष्ठम्:शङ्कराचार्यविरचितानि स्तोत्राणि (प्रथमः भागः).pdf/१४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२८
सौन्दर्यलहरी ।


त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
 कवीन्द्रा: कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।
यदालोकौत्सुक्यादमरललना यान्ति मनसा
 तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम ॥ १२ ॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं
 तवापाङ्गालोके पतितमनुधावन्ति शतशः ।
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
 हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ।। १३ ।

क्षितौ षट्पञ्चाशद्विसमधिकपञ्चाशदुदके
 हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।
दिवि द्विःषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये
 मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम ॥ १४ ॥

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां
 वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।
सकृन्न त्वा नत्वा कथमिव सतां संनिदधते
 मधुक्षीरद्राक्षामधुरिमधुरीणा: फणितयः ॥ १५॥